संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - उच्चस्थग्रहफलम्

मानसागरी - अध्याय ३ - उच्चस्थग्रहफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


धीरः प्रचण्डः कुशलो गौरः शूरः कलानिधिश्चतुरः ।

दण्डपतिर्धनयुक्त उच्चस्थो भास्करः कुरुते ॥१॥

विज्ञानधनसमेतो पात्रपवित्रं च कामिनीविरही ।

बहुजनताजनवल्लभ उच्चस्थो हिमकरः कुरुते ॥२॥

उग्रदृढप्रहारं क्रूरं शस्त्रं वचनबहुविदितम् ।

नृपकुलवल्लभशूरो ह्युच्चस्थो भूसुतः कुरुते ॥३॥

चित्तबुद्धिबलिष्ठो मंत्राक्षरः क्रियालसः सौरः ।

अतिमतिविभवो बालो पापविमुक्तश्च उच्चगः शशिजः ॥४॥

स्वाचारः शुभयुक्तः सुन्दरवदनश्च मण्डलो मुदितः ।

बहुभृत्यो भूभुजानां च मन्त्री गुरुरुच्चगो यस्य ॥५॥

देवज्ञानकुशलो यन्त्री तन्त्री च गायकः कवीशः ।

कमलाविलासलापी दैत्यगुरुरुच्चगः कुरुते ॥६॥

सुस्रक्कार्मुकवृत्तिर्विख्यातसकलवाहनसुरः ।

मैत्री साहसधौर्त्या मायावी उच्चगः सौरिः ॥७॥

क्रूरो दुष्टबलिष्ठो साहसनितरस्थमन्त्रिणां सुसुरः ।

राज्यकमलामणिमण्डितस्वर्भानुरुच्चगः कुरुते ॥८॥

स्थविरः स्थविलो नीचाचारो मिथ्या भवेद्भमणशीलः ।

परकर्मलिप्तकमलो व्यासानुमत्तमः शिखिनः ॥९॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP