संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - द्वादशभावस्थदशमेशफलम्

मानसागरी - अध्याय ३ - द्वादशभावस्थदशमेशफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


दशमपतौ लग्नगते मातरि वैरी पितुर्भक्तः ।

दुष्टगते च ताते खलु परपुरुषरता भवति माता ॥१॥

वित्तस्थे गगनपतौ मात्रा पालितः सुतो भवति लोभी ।

मातरि दुष्टो नितरां स्वल्पग्रासी श्रुतसुकर्मा ॥२॥

मातृस्वजनविरोधी सेवानिरतो न कर्मणि समर्थः ।

मातुलपरिपालितः स्याद्दशमपतौ सहजभवनस्थे ॥३॥

व्योमपतौ तुर्यगते सुखे विरतः सदाचारः ।

भक्तश्च पितरि मातरि नृपमानी जायते पुरुषः ॥४॥

शुभकर्मको विडम्बी नृपलाभी गीतवाद्यनिरतः स्यात् ।

गगनपतौ तनयगते पालयति च तं सुतं माता ॥५॥

अम्बरपे रिपुसंस्थे शत्रुभयात्कातरः कलहशीलः ।

कृपणः कृपया हीनो नरो न रोगी भवति लोके ॥६॥

सुतवती शुभरुपसमन्विता निजपतिप्रतिपालनलालसा ।

भवति तस्य शुभं कुरुते सदा प्रियतमाम्बरपे दयितागते ॥७॥

पुष्करपतिरष्टमगः क्रूरं शूरं मृषान्वितं दुष्टम् ।

मातरि संतापकरं जनयति तनुजीवितं कितवम् ॥८॥

शुभशीलः सद्वन्धुः सन्मित्रो दशमपे नवमलीने ।

तन्मातापि सुशीला सुकृतवती सत्यवचनरता ॥९॥

गगनपतिर्गगनगतो जननीसुखप्रदं पुरुषम् ।

जननीकुलविपुलसुखं प्रकथनघटनापटीयांसम् ॥१०॥

मानोर्जिते धनसहिता माता च रक्षणी भवेत्सुखिनी ।

दीर्घायुर्मातृसुखी पुरुषो लाभस्थितोऽम्बरपे ॥११॥

मात्रोज्झितो निजबलः शुभकर्मा नृपतिकर्मरतचेताः ।

व्योमपतौ व्ययसंस्थे देशान्तरगतश्च पापखगे ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP