संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - द्वादशभावस्थष्ठस्वामिफलम्

मानसागरी - अध्याय ३ - द्वादशभावस्थष्ठस्वामिफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


षष्ठेशो लग्नगतो नीरुक्सबलः कुटुम्बकष्टकरः ।

बहुपक्षो रिपुहन्ता भवति नरः स्वैरवचनधनः ॥१॥

शत्रुपतौ द्रविणस्थे दुष्टश्चतुरो हि संग्रहपरेष्टः ।

स्थानप्रवरो विदितो व्याधिततनुः सुत्दृद्वित्तघ्नः ॥२॥

षष्ठपतिः सहजस्थः कुरुते सलोककष्टकरः ।

निजजनकमारणं कष्टं संग्रामतस्तस्य ॥३॥

षष्ठाधिपतिस्तुर्ये पितृतनयौ वैरिणौ मिथः कुरुते ।

सरुक् पिता सोऽथ सुतो लक्ष्मीं लभते नरः सुचिरम् ॥४॥

रिपुभवनपतौ सुतगे पितृतनयौ वैरिणौ मृतिः सुततः ।

क्रूरे शुभे च निर्धनः पदवी दुष्टश्च तत्कपटी ॥५॥

रिपुभवने रिपुसंस्थे नीरुग्वैरी सुखी कृपणः ।

नहि जन्मतोऽपि सीदति स्थानकुवासी च भवति नरः ॥६॥

अहितपतौ सप्तमगे क्रूरे भार्या विरोधनी चण्डी ।

संतापकरी त्वथ सौम्यैर्वन्ध्या वा गर्भनाशपरा ॥७॥

शनेर्ग्रहणिकारुजो विषधराद्धरानन्दनाद-

बुधाच्च विषदोषतः सपदि मृत्युरेणाङ्कतः ।

रवेर्मृगपतेर्वधात्प्रकटमष्टमात्षष्ठपाद्-

गुरोरपि च दुष्टधीर्नयनदोषवाञ्छुक्रतः ॥८॥

शत्रुपतिर्यदि नवमः क्रूरः खचरस्तदा भवेत् खञ्जः ।

बन्धुविरोधी शास्त्रं न मन्यते याचकः पुरुषः ॥९॥

अरिपे दशमगृहस्थे क्रूरे मातरि रिपुस्तदा दुष्टः ।

धर्मसुतपालनमतिर्मातुर्दोषी भवेद्वैरी ॥१०॥

वैरिपतौ लाभगते क्रूरे मरणं विपक्षतो भवति ।

वैरितस्करकृतहानिः स्याच्चतुष्पदाल्लाभवान्मनुजः ॥११॥

षष्ठपतौ द्वादशगे चतुष्पदाद्द्रव्यहानिकरः ।

गमनागमनं लक्ष्मीहा देवपरो भवति ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP