संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - द्वादशभावस्थधनभावेशफलम्

मानसागरी - अध्याय ३ - द्वादशभावस्थधनभावेशफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


द्रव्यपतिर्लग्नगतः कृपणं व्यवसायिनं सुकर्माणम् ।

धनिनं श्रीपतिविदितं करोति नरमतुलभोगयुतम् ॥१॥

व्यवसायी च सुलाभी उत्पन्नभुगलीककारको नीचः ।

आलिककृद्विदितः पूर्णोद्वेगी धनपतौ धनगे ॥२॥

धनपे सहजगते बन्धोर्भेदनावर्जिते क्रूरे ।

सौम्ये राजविरोधो भूतनये तस्करः पुरुषः ॥३॥

तुर्यगते द्रविणपतौ पितृलाभपरः सत्यदयायुक्तः ।

दीर्घायुः क्रूरे खगे पुनरथवा मरणं विनिर्देश्यम् ॥४॥

तनयकमलविलासी कर्मणि कष्टतरं प्रसिद्धं च ।

कृपणं दुःखनिधानं तनयगतो धनपतिः कुरुते ॥५॥

षष्ठगतो द्रविणपतिर्धनसंग्रहतत्परं रिपुघ्नं च ।

भूलाभिनं सुखचरैः पापैर्धनवर्जितं पुरुषम् ॥६॥

धनपेन च सप्तमगे श्रेष्ठगचिन्ताविलासभोगवती ।

धनसंग्रहणी भार्या क्रूरे खेचरे भवेद्वन्ध्या ॥७॥

धनपेऽष्टमभुवनस्थे अष्टकपाली चात्मघातकः पुरुषः ।

उत्पन्नभुग्विलासी परधनहिंसी भवति दैवपरः ॥८॥

धनपे धर्मगृहस्थे सौम्ये दानप्रसिद्धवाग्भवति ।

क्रूरे दरिद्रभिक्षुको विडम्बवृत्तिस्तथा मनुजः ॥९॥

दशमगृहगे धनपे नरेन्द्रमान्यो भवेन्नृपाल्लक्ष्मीः ।

सौम्यगृहगे च मातुर्मनुजः पितृपालको भवति ॥१०॥

एकादशगः खेचरव्यवहारे श्रीपतिः ख्यातः ।

लोकौघप्रतिपालनरतख्यातं च नरं भवेज्जातम् ॥११॥

द्रविणपतौ व्ययलीने पुरुषं कृपणं धनवर्जितं क्रूरे ।

सौम्ये लाभालाभं ख्यातं नरं भवेज्जातम् ॥१२॥

N/A

References : N/A
Last Updated : March 22, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP