संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - शुक्रभावाध्यायः

मानसागरी - अध्याय १ - शुक्रभावाध्यायः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


चन्द्रात्तु प्रथमः शुक्रो जन्मकाले यदा भवेत् ।

जले मृत्युर्भवेत्तस्य सन्निपातो हि हिंसया ॥१॥

चन्द्राद्वितीयगः शुक्रो जन्मकाले यदा भवेत् ।

महाधनी महाज्ञानी राजतुल्यो न संशयः ॥२॥

चन्द्रात्सहजगः शुक्रो जन्मकाले यदा भवेत् ।

धर्मिष्ठो बुद्धिमांश्चैव म्लेच्छतो लाभदायकः ॥३॥

चन्द्राच्चतुर्थगः शुक्रो जन्मकाले यदा भवेत् ।

कफाधिको महाक्षीनो वार्द्धक्ये धनवर्जितः ॥४॥

चन्द्रात्पञ्चमगः शुक्रो जन्मकाले यदा भवेत् ।

बहुकन्या भविष्यन्ति धनाढ्यो यशवर्जितः ॥५॥

चन्द्राच्च षष्ठगः शुक्रो जन्मकाले यदा भवेत् ।

दुर्व्ययाद्नयकारी च संग्रामे च पराजितः ॥६॥

चन्द्रात्सप्तमगः शुक्रो जन्मकाले यदा भवेत् ।

पुरुषार्थहीनोऽकुशलः शाङ्कितश्च पदे पदे ॥७॥

चन्द्रादष्टमगः शुक्रो जन्मकाले यदा भवेत् ।

प्रसिद्धो हि महायोद्धा दाता भोक्ता महाधनी ॥८॥

चन्द्रान्नवमगः शुक्रो जन्मकाले यदा भवेत् ।

बहुभ्राता तथ मित्रभगिनीबहुलो भवेत् ॥९॥

चन्द्राच्च दशमे शुक्रो जन्मकाले यदा भवेत् ।

मातापित्रोः सुखप्राप्तिर्जीवितं तु बृहद्भवेत् ॥१०॥

चन्द्रादेकादशे शुक्रो जन्मकाले यदा भवेत् ।

बह्वायुश्च भवेत्पुंसो रिपुरोगविवर्जितः ॥११॥

चन्द्राद्वादशगः शुक्रो जन्मकाले यदा भवेत् ।

परदाररतो नित्यं लंपटो ज्ञानहीनकः ॥१२॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP