संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - गुरुभावाध्यायः

मानसागरी - अध्याय १ - गुरुभावाध्यायः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


चन्द्रात्प्रथमगो जीवो जीवयोग्यो भवेन्नरः ।

व्याधिना रहितः शूरो निर्धनो न कदाचन ॥१॥

चन्द्राद्वितीयगो जीवो राजमान्यः शतायुषी ।

अत्युग्रश्च प्रतापी च धर्मिष्ठः पापवर्जितः ॥२॥

चन्द्रात्तृतीयगे जीवे नारीणां वल्लभो भवेत् ।

धनवृद्धिः पितुर्गेहे वर्षे सप्तदशे तथा ॥३॥

चन्द्राच्चतुर्थगो जीवः सुखैश्चैव विवर्जितः ।

मातृपक्षे महाकष्टी परेषां गृहकर्मकृत् ॥४॥

चन्द्रात्पंचमगो जीवो दिव्यदृष्टिर्भवेन्नरः ।

तेजस्वी पुत्रदा नारी ह्यत्युग्रश्च महाधनी ॥५॥

चन्द्राच्च षष्ठगो जीवो ह्युदासी गृहवर्जितः ।

आयुर्बाह्यं भवेत्पुंसां भिक्षाभोक्ता व्यवस्थितः ॥६॥

चन्द्राच्च षष्ठगो जीवो ह्युदासी गृहवर्जितः ।

आयुर्बाह्यं भवेत्पुंसां भिक्षाभोक्ता व्यवस्थितः ॥६॥

चन्द्रात्सप्तमगो जीवो बहुजीवी व्ययं विना ।

स्थूलदेही क्लीबपाण्डुर्गृहमध्ये च नायकः ॥७॥

चन्द्रादष्टमगो जीवो देहरोगी सदा नरः ।

सुतातोऽपि महाक्लेशी सुखं स्वप्न न दृश्यते ॥८॥

चन्द्रान्नवमगो जीवो धर्मिष्ठो धनपूरितः ।

सुमार्गे सुगतश्चैव देवगुर्वोश्च सेवकः ॥९॥

चन्द्राद्दशमगो जीवो जन्मकाले यदा भवेत् ।

पुत्रदारपरित्यागी तपस्वी च भवेन्नरः ॥१०॥

चन्द्रादेकादशे जीवो जन्मकाले यदा भवेत् ।

अश्वारुढो भवेत्पुत्रो राजतुल्यो भवेन्नरः ॥११॥

चन्द्रादद्वादशगो जीवो जन्मकाले यदा भवेत् ।

स्यात्कुटुंबविरोधी च सुखं शत्रोर्दशाग्रहे ॥१२॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP