संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - सूर्यभावाध्यायः

मानसागरी - अध्याय १ - सूर्यभावाध्यायः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


चन्द्रात्प्रथमगो भानुर्जन्मकाले यदा भवेत् ।

विदेशगामी भोगी च कलहे कृतवासनः ॥१॥

जन्मकाले यदा भानुर्द्वितीयो यदि चन्द्रतः ।

बहुभृत्ययशाश्चैव राजमान्यो भवेन्नरः ॥२॥

चन्द्राद्भानुस्तृतीयश्च जन्मकाले यदा भवेत् ।

स्वर्णार्थीशो शुचिश्चैव राजतुल्यो भवेन्नरः ॥३॥

चन्द्राच्चतुर्थगो भानुर्जन्मकाले यदा भवेत् ।

गणकाः कथयन्त्येव मातृहन्ता न भक्तिमान् ॥४॥

चन्द्रात्पञ्चमगो भानुर्जन्मकाले यदा भवेत् ।

सुताभिश्चासुखी चैव बहुपुत्री भविष्यति ॥५॥

चन्द्रात्षष्ठगतो भानुर्जन्मकाले यदा भवेत् ।

शत्रूणां विजयी शूरः क्षात्रकर्मरतः सदा ॥६॥

जन्मकाले यदा भानुश्चन्द्रात्सप्तमगो भवेत् ।

सुस्त्री सुशीलचारी च राजमान्यो महातपाः ॥७॥

चन्द्रादष्टमगो भानुर्जन्मकाले यदा भवेत् ।

सर्वदा क्लेशकारी च ह्यातिरोगात्प्रपीडितः ॥८॥

चन्द्रान्नवमगो भानुर्जन्मकाले यदा भवेत् ।

धर्मात्मा सत्यवादी च बन्धक्लेशी सदा भवेत् ॥९॥

चन्द्राद्दशमगो भानुर्जन्मकाले यदा भवेत् ।

तस्य द्वारेषु तिष्ठन्ति धनवन्तो न संशयः ॥१०॥

चन्द्रादेकादशे भानुर्जन्मकाले यदा भवेत् ।

राजगर्व्यतिवेत्ता च प्रसिद्धः कुलनायकः ॥११॥

चन्द्राद्वादशगो भानुर्जन्मकाले यदा भवेत् ।

तेजहीनो नयनयो रोषावेशात्प्रमुच्यते ॥१२॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP