संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - योनिविचारचक्रम्

मानसागरी - अध्याय १ - योनिविचारचक्रम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


स्वच्छन्दः सद्नुणः शूरस्तेजस्वी घर्घरेश्वरः ।

स्वामिभक्तस्तुरङ्गस्य योन्यां जातो भवेन्नरः ॥१॥

राजामान्यो बली भोगी भूपस्थानविभूषणः ।

आत्मोत्साही नरो जातो गजयोनौ न संशयः ॥२॥

स्त्रीणां प्रियः सदोत्साही बहुवाक्यविशारदः ।

स्वल्पायुश्च नरो जातः पशुयोनौ न संशयः ॥३॥

दीर्घरोषः सदा क्रूर उपकारं न गृह्यते ।

परवेश्मापहारी च सर्पयोनौ न संशयः ॥४॥

सोद्यमः सुमहोत्साही शूरः स्वज्ञातिविग्रही ।

मातृपित्रोः सदा भक्तः श्वानयोनिसमुद्भवः ॥५॥

स्वस्वकार्ये शूरदक्षो मिष्टान्नाहारभोजनः ।

निर्दयो दुष्टसद्भावी नरो मार्जारयोनिजः ॥६॥

महद्विक्रमयोद्धापि ईश्वरो विभवेश्वरः ।

परोपकारी नित्यं च मेषयोनौ भवेन्नरः ॥७॥

बुद्धिमान्वित्तसंपूर्णः स्वकार्यकरणोद्यतः ।

अप्रमत्तोऽप्यविश्वासी नरो मूषकयोनिजः ॥८॥

स्वधर्मे तु सदाचारः सत्क्रियासद्नुणान्वितः ।

कुटुम्बस्य समुद्धर्ता सिंहयोनिभवो नरः ॥९॥

संग्रामे विजयी योद्ध सकामस्तु बहुप्रजः ।

वाताधिको मन्दमतिर्नरो महिषयोनिजः ॥१०॥

स्वच्छन्दोऽर्थरतो ग्राही दीक्षावान् स विभुः सदा ।

आत्मस्तुतिपरो नित्यं व्याघ्रयोनिभवो नरः ॥११॥

स्वच्छन्दः शान्तसदवृत्तिः सत्यवान् स्वजनप्रियः ।

धर्मिष्ठो रणशूरश्च यो नरो मृगयोनिजः ॥१२॥

चपलो मिष्टभोगी चार्थलुब्धश्च कलिप्रियः ।

सकामः सत्प्रजः शूरो नरो वानरयोनिजः ॥१३॥

परोपकरणे दक्षो वित्तेश्वरविचक्षणः ।

पितृमातृप्रियो नित्यं नरो नकुलयोनिजः ॥१४॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP