संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - योगजातफलम्

मानसागरी - अध्याय १ - योगजातफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


विष्कम्भजातो मनुजो रुपवान्भाग्यवान्भवेत् ।

नानालङ्कारसंपूर्णो महाबुद्धिर्विशारदः ॥१॥

प्रीतियोगे समुत्पन्नो योषितां वल्लभो भवेत् ।

तत्त्वज्ञश्च महोत्साही स्वार्थे नित्यं कृतोद्यमः ॥२॥

आयुष्मान्नामयोगे च जातो मानी धनी कविः ।

दीर्घायुः सत्त्वसंपन्नो युद्धे चाप्यपराजितः ॥३॥

सौभाग्ये च समुत्पन्नो राजमंत्री स जायते ।

निपुणः सर्वकार्येषु वनितानां च वल्लभः ॥४॥

शोभने शोभनो बालो बहुपुत्रकलत्रवान् ।

आतुरः सर्वकार्येषु युद्धभूमौ सदोत्सुकः ॥५॥

अतिगण्डे च यो जातो मातृहन्ता भवेच्च सः ।

गण्डान्तेषु च जातस्तु कुलहन्ता प्रकीर्तितः ॥६॥

सुकर्मानामयोगे तु सुकर्मा जायते नरः ।

सर्वैः प्रीतः सुशीलश्च रागी भोगी गुणाधिकः ॥७॥

धृतिमान् धृतियोगी च कीर्तिपुष्टिधनान्वितः ।

भाग्यवान्सुखसंपन्नो विद्यावान्गुणवान् भवेत् ॥८॥

शूले शूलव्यथायुक्तो धार्मिकः शास्त्रपारगः ।

विद्यार्थकुशलो यज्वा जायते मनुजः सदा ॥९॥

गण्डे गण्डव्यथायुक्तो बहुक्लेशो महाशिराः ।

हस्वकायो महाशूरो बहुभोगी दृढव्रतः ॥१०॥

वृद्धियोगे सुरुपश्च बहुपुत्रकलत्रवान् ।

धनवानपि भोक्ता च सत्त्ववानपि जायते ॥११॥

ध्रुवयोगे च दीर्घायुः सर्वेषां प्रियदर्शनः ।

स्थिरकर्माऽतिशक्तश्च ध्रुवबुद्धिश्च जायते ॥१२॥

व्याघातयोगजातश्च सर्वज्ञः सर्वपूजितः ।

सर्वकर्मकरो लोके व्याख्यातः सर्वकर्मसु ॥१३॥

हर्षणे जायते लोके महाभाग्यो नृपप्रियः ।

धृष्टः सदा धनैर्युक्तो विद्याशास्त्रविशारदः ॥१४॥

वज्रयोगे वज्रमुष्टिः सर्वविद्यास्त्रपारगः ।

धनधान्यसमायुक्तस्तत्त्वज्ञो बहुविक्रमः ॥१५॥

सिद्धियोगे समुत्पन्नः सर्वसिद्धियुतो भवेत् ।

दाता भोक्त सुखी कान्तः शोकी रोगी च मानवः ॥१६॥

व्यतीपाते नरो जातो महाकष्टेन जीवति ।

जीवेत्स्याद्भाग्ययोगेन स भवेदुत्तमो नरः ॥१७॥

वरीयान्नामयोगे च बलिष्ठो जायते नरः ।

शिल्पशास्त्रकलाभिज्ञो गीतनृत्यादिकोविदः ॥१८॥

परिघे च नरो जातः स्वकुलोन्नतिकारकः ।

शास्त्रज्ञः सुकविर्वाग्ग्मी दाता भोक्ता प्रियंवदः ॥१९॥

शिवयोगे नरो जातः सर्वकल्याणभाजनः ।

महादेवसमो लोके सदा बुद्धियुतो भवेत् ॥२०॥

सिद्धियोगे सिद्धिदाता मंत्रसिद्धिप्रवर्तकः ।

दिव्यनारीसमेतश्च सर्वसम्पद्युतो भवेत् ॥२१॥

साध्ये मानसिका सिद्धिर्यशोऽशेषसुखागमः ।

दीर्घसूत्रः प्रसिद्धश्च जायते सर्वसंमतः ॥२२॥

शुभे शुभशतैर्युक्तो धनवानपि जायते ।

विज्ञानज्ञानसंपन्नो दाता ब्राह्मणपूजकः ॥२३॥

शुक्ले सर्वकलायुक्तः सर्वार्थज्ञानवान्भवेत् ।

कविः प्रतापी शूरश्च धनी सर्वजनप्रियः ॥२४॥

ब्रह्मयोगे महाविद्वान् वेदशास्त्रपरायणः ।

ब्रह्मज्ञानरतो नित्यं सर्वकार्येषु कोविदः ॥२५॥

ऐन्द्रे भूपकुले जातो राजा भवति निश्चयः ।

अल्पायुस्तु सुखी भोगी गुणवानपि जायते ॥२६॥

वैधृतो जायते यस्तु निरुत्साही बुभुक्षितः ।

कुर्वाणोऽपि जनैः प्रीतिं प्रयात्यप्रियतां नरः ॥२७॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP