संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - जन्मनक्षत्रफलम्

मानसागरी - अध्याय १ - जन्मनक्षत्रफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


सुरुपः सुभगो दक्षः स्थूलकायो महाधनी ।

अश्विनीसंभवो लोके जायते जनवल्लभः ॥१॥

अरोगी सत्यवादी च सत्प्राणश्च दृढव्रतः ।

भरण्यां जायते लोकः सुसुखी धनवानपि ॥२॥

कृपणः पापकर्मा च क्षुधालुर्नित्यपीडितः ।

अकर्म कुरुते नित्यं कृत्तिकासंभवो नरः ॥३॥

धनी कृतज्ञो मेधावी नृपमान्यः प्रियंवदः ।

सत्यवादी सुरुपश्च रोहिण्यां जायते नरः ॥४॥

चपलश्चतुरो धीरः कूटकर्मस्वकर्मकृत् ।

अहङ्कारी परद्वेषी मृगे भवति मानवः ॥५॥

कृतघ्नः कोपयुक्तश्च नरः पापरतः शठः ।

आर्द्रानक्षत्रसंभूतो धनधान्यविवर्जितः ॥६॥

शान्तः सुखी च संभोगी सुभगो जनवल्लभः ।

पुत्रमित्रादिभिर्युक्तो जायते च पुनर्वसौ ॥७॥

देवधर्मधनैर्युक्तः पुत्रयुक्तो विचक्षणः ।

पुष्ये च जायते लोकः शान्तात्मा सुभगः सुखी ॥८॥

सर्वभक्षी कृतान्तश्च कृतघ्नो वञ्चकः खलः ।

आश्लेषायां नरो जातः कृतकर्मा हि जायते ॥९॥

बहुभृत्यो धनी भोगी पितृभक्तो महोद्यमी ।

चमूनाथो राजसेवी मघायां जायते नरः ॥१०॥

विद्यागोधनसंयुक्तो गंभीरः प्रमदाप्रियः ।

पूर्वाफाल्गुनिकाजातः सुखी पण्डितपूजितः ॥११॥

दान्तः शूरो मृदुर्वक्ता धनुर्वेदार्थपण्डितः ।

उत्तराफाल्गुनीजातो महायोद्धा जनप्रियः ॥१२॥

असत्यवचनो धृष्टः सुरापो बन्धुवर्जितः ।

हस्ते जातो नरश्चौरो जायते पारदारिकः ॥१३॥

पुत्रदारयुतस्तुष्टो धनधान्यसमन्वितः ।

देवब्राह्मणभक्तश्च चित्रायां जायते नरः ॥१४॥

विदग्धो धार्मिकश्चैव कृपणः प्रियवल्लभः ॥

सुशीलो देवभक्तश्च स्वातौ जातो भवेन्नरः ॥१५॥

अतिलुब्धोऽतिमानी च निष्ठुरः कलहप्रियः ।

विशाखायां नरो जातो वेश्याजनरतो भवेत् ॥१६॥

पुरुषार्थप्रवासी च बन्धुकार्ये सदोद्यमी ।

अनुराधाभवो लोकः सदा धृष्टश्च जायते ॥१७॥

बहुमित्रप्रधानश्च कविर्दान्तो विचक्षणः ।

ज्येष्ठाजातो धर्मरतो जायते शूद्रपूजितः ॥१८॥

सुखेन युक्तो धनवाहनाढ्यो हिंस्त्रो बलाढ्यः स्थिरकर्मकर्ता ।

प्रतापितारातिजनो मनुष्यो मूले कृती स्याज्जननं प्रपन्नः ॥१९॥

दृष्टमात्रोपकारी च भाग्यवांश्च जनप्रियः ।

पूर्वाषाढाभवो नूनं सकलार्थविचक्षणः ॥२०॥

बहुमित्रो महाकायो जायते विनयी सुखी ।

उत्तराषाढसंभूतः शूरश्च विजयी भवेत् ॥२१॥

अतिसुललितकान्तिः सम्मतः सज्जनानां

ननु भवति विनीतश्चारुकीर्तिः सुरुपः ।

द्विजवरसुरभक्तिर्व्यक्तवाङमानवः स्या-

दभिजिति यदि सूतिर्भूपतिः स स्ववंशे ॥२२॥

कृतज्ञः सुभगो दाता गुणैः सर्वैश्च संयुतः ।

श्रीमान्बहुलसन्तानः श्रवणे जायते नरः ॥२३॥

गीतप्रियो बन्धुमान्यो हेमरत्नैरलंकृतः ।

जातो नरो धनिष्ठायां शतैकस्य पतिर्भवेत् ॥२४॥

कृपणो धनपूर्णः स्यात्परदारोपसेवकः ।

जातः शतभिषायां च विदेशे कामुको भवेत् ॥२५॥

वक्ता सुखी प्रजायुक्तो बहुनिद्रो निरर्थकः ।

पूर्वाभाद्रपदायां च जातो भवति मानवः ॥२६॥

गौरः ससत्त्वो धर्मज्ञः शत्रुघाती परामरः ।

उत्तराभाद्रपदजो नरः साहसिको भवेत् ॥२७॥

संपूर्णाङ्गः शुचिर्दक्षः साधुः शूरो विचक्षणः ।

रेवतीसंभवो लोके धनधान्यैरलंकृतः ॥२८॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP