संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - द्वादशमासफलम्

मानसागरी - अध्याय १ - द्वादशमासफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


चैत्रे च दृष्टिभाजः स्यात्साहङ्कारः शुभाकरः ।

रक्तेक्षणः सरोषश्च स्त्रीलोलः स भवेत्सदा ॥१॥

भोगी धनी सुचितश्च सक्रोधश्च सुलोचनः ।

सुरुपो वल्लभः स्त्रीणां माधवे जायते नरः ॥२॥

परदेशरतश्चैव शुभचित्तो धनान्वितः ।

दीर्घायुश्च सुबुद्धिश्च ज्येष्ठे सुष्ठु धनी भवेत् ॥३॥

पुत्रपौत्रान्वितो धर्मी वित्तनाशेन पीडितः ।

सुवर्णश्चाल्पसुखितो ह्याषाढे च भवेन्नरः ॥४॥

सुखदुःखे तथा हानौ लाभे च समचित्तकः ।

स्थूलदेहः सुरुपश्च श्रावणे जायते नरः ॥५॥

नित्यप्रमोदी जल्पाकः पुत्रयुक्तः सुखी भवेत् ।

मृदुभाषी सुशीलश्च भाद्रजातो भवेन्नरः ॥६॥

सुरुपश्च सुखैर्युक्तः काव्यकर्ता परः शुचिः ।

गुणवान् धनवान् कामी ह्याश्विने जायते नरः ॥७॥

सुधनी कामबुद्धिश्व दुरात्मा क्रयविक्रयी ।

पापीयान् दुष्टचित्तश्व कार्तिके जायते नरः ॥८॥

मृदुभाषी धनी धर्मी बहुमित्रः पराक्रमी ।

परोपकारी जातश्च मार्गशीर्षे भवेन्नरः ॥९॥

शूर उग्रप्रतापी च पितृदेवविवर्जितः ।

ऐश्वर्यजन्मकारी च पौषे मासे नरो भवेत् ॥१०॥

मतिमान् धनवांश्चैव शूरो निष्ठुरभाषकः ।

कामुकश्च रणे धीरो माघजातो भवेन्नरः ॥११॥

शुक्लः परोपकारी च धनविद्यासुखान्वितः ।

विदेशे भ्रमते नित्यं फाल्गुने जायते नरः ॥१२॥

विषयहीनमतिः सुचरित्रदृग् विविधतीर्थकरश्च निरामयः ।

सकलवल्लभ आत्महिते रतः खलु मलिम्लुचमासभवो नरः ॥१३॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP