संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथदेशान्तरेसपिण्डमरणे

धर्मसिंधु - अथदेशान्तरेसपिण्डमरणे

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथदेशान्तरेसपिण्डमरणेदशाहोर्ध्वज्ञातेपक्षत्रयपर्यन्तत्रिरात्रम्

षण्मासपर्यन्तपक्षिणीनवमासपर्यन्तमेकाहः वर्षपर्यन्तंसज्योतिरितिमाधवमतम्

विज्ञानेश्वरस्तुदेशान्तरेसपिण्डमरणेदशाहोर्ध्वज्ञातेस्नानमात्रमित्याह

अत्रमाधवमतमेवयुक्तम् अतिक्रान्ताशौचंवयोवस्थानिमित्तकाशौचंचसर्ववर्णसाधारणम्

देशान्तरंतुविप्रस्यविशतियोजनात्परम् क्षत्रियादेःक्रमेणचतुर्विंशत्रिशत्षष्टियोजनैःकेचिद्विप्रस्यतिंशद्योजनोत्तरंदेशान्तरमाहुः

भाषाभेदसहितमहागिरिणाभाषाभेदसहितमहानद्यावाव्यवधानमपिदेशान्तरम्

यत्तुकेचिद्भाषाभेदरहितमपिगिरिनदीव्यवधानंदेशान्तरमाहुः

तद्योजनगतविंशत्यादिसंख्यायास्त्रिचतुरादिन्यूनत्वेऽपिदेशान्तरत्वसंपादकतयायोज्यमितिभाति

अन्यथामहानदीपरपूर्वतीरवासिनामेकयोजनमध्येपिदेशान्तरत्वापत्तेः

अत्रसगोत्रविशयाशौचान्येवभार्यापतिपुत्रादिभिःसवैरनुष्ठेयानि

यानितुमातुलत्वभगिनीत्वादिप्रयुक्तानिभिन्नगोत्राशौचानितेषुजायापतिपुत्रादिषुमध्येत्संवन्धियत्तत्तेनैवानुष्ठेयंनसर्वेः ॥

रात्रौजननमरणेरात्रौमरणज्ञानेवारात्रिंत्रिभागाकृत्वाप्रथमभागद्वयेपूर्वदिनंतृतीयभागेउत्तरदिनमारभ्याशौचन्

यद्वार्धरात्रात्प्राक्‌पूर्वदिनंपरतःपरदिनम् अत्रदेशाचारादिनाव्यवस्था ॥

अहिताग्नेर्मन्त्रवद्दाहादिनमारभ्यपुत्रादिभिराशौचंकार्यम् अत्राहिताग्निपदेनश्रोताग्नित्रयवानग्राह्यः

तद्भोन्नोगृह्याग्निमानप्यनाहिताग्निपदेनग्राह्यः

आहिताग्नेर्विदेशमरणेमन्त्रवद्दाहात्पूर्वपुत्रादीनामाशौचसंध्यादिनित्यकर्मलोपश्चनास्ति

मन्त्रवद्दाहमारभ्यतुपुत्रादिसपिण्डानांदुहितृदौहित्रादिभिन्नगोत्राणांचाशौचंभवत्येव

नत्वतिक्रान्तनिमित्तकाअशौचाभावस्तस्यह्रासोवाअतएवाहिताग्नेः

पर्णशरदाहेऽपिदशाहमेवदेशान्तरेकालान्तरेपिसिद्ध्यति

अनाहिताग्नेर्मरणदिनादारभ्यपुत्रादिभिराशौचंकार्यम्

अनाहिताग्नेर्देशान्तरेमरणेअतिक्रान्ताशौचंमरणश्रवणातन्तरमेवपूर्वोक्तव्यवस्थयाकार्यम्

अनाहिताग्नेरस्थिदाहपर्णशरदाहयोस्तुपूर्वमगृहीताशौचयोर्भार्यापुत्रयोर्दशाहमेव

गृहीताशौचयोस्तुसंस्कारकर्तृभिन्नयोर्दाहकालेत्रिरात्रम् सपत्‍न्योर्मिथश्चैवम्

पत्‍नीसंस्कारेपत्युश्चैवम् एतद्भिन्नसपिण्डानांतुपूर्वमगृहीताशौचानामनाहिताग्निसंस्कारकालेत्रिरात्रम्

गृहीताशौचानांतुसपिण्डानांदाहकालेस्नानमात्रम्

इदंसपिण्डानांत्रिरात्रादिकंपुत्रादेर्दशाहादिकंचदशाहोर्ध्वंसंस्कारकरणेज्ञेयम्

दशाहमध्येसंस्कारकरणेतुशेषदिनैरेवशुद्धिःकर्मसमाप्तिश्च

आहिताग्नेरेवदशाहमध्येपिशरीरदाहेऽस्थिदाहेपर्णशरदाहेवाशेषेणनशुद्धिः

समन्त्रकदाहदिनस्यैवप्रथमदिनतवादित्युक्तम्

दशाहोर्ध्वदेशान्तरमृतानाहिताग्निवार्ताश्रवणादिनात्कृतत्रिरात्राशौचानांसपिण्डानाम

चतुर्थादिदिनेषुसंस्कारारम्भेदाहकालेस्नानम् अगृहीताशौचानांत्रिदिनमेव

भार्यापुत्रादेःश्रवणदिनादारभ्यदशाहम् द्वितीयादावहन्यारम्भेचतुर्थदिनेसपिण्डशुद्धिःभार्यादेर्दशाहमेवश्रवणदिनादित्यूह्यम्

देशान्तरगतस्यद्वादशवर्षादिप्रतीक्षोत्तरंपर्णशरदाहेप्येवमेवपुत्रादेःसपिण्डानांचदशरात्रंत्रिरात्रादिकमूह्यम्

प्रतीक्षाचयदारभ्यवार्तानश्रूयतेतदारभ्य पञ्चदशवर्षाणिमातापित्रोः अन्येषांपूर्वेवयसिविंशतिः

मध्यमेपञ्चदश उत्तरेवयसिद्वादशप्रतीक्षायुक्त्यादिभिर्मरणनिश्चयासंभवेकार्या ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP