संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथतिलतर्पणम्

धर्मसिंधु - अथतिलतर्पणम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथतिलतर्पणम् तच्चयच्छ्राद्धेयावन्तःपितरस्तर्पितास्तावापितृगणोद्देशेनतच्छ्रद्धाङ्गत्वेनतिलैस्तर्पणंकार्यम्

तत्रकालनियमः पूर्वतिलोदकंदर्शेप्रत्यब्देतुपरेहनि ।

इत्यादि तदयंनिष्कर्षः दर्शश्राद्धेश्राद्धात्पूर्वश्राद्धाङ्गतिलतर्पणम् तत्रविप्रनिमन्त्रणोत्तरं

पाकरम्भोत्तरंवाब्रह्मयज्ञकरणेश्राद्धीयषट्‌पुरुषोद्देशेनश्राद्धाङ्गतर्पणंकृत्वाश्राद्धारंभःकार्यः

प्रत्याहिकंसर्वापितृतर्पणंतुब्रह्मयज्ञकालेकार्यम् एवंयुगादिमन्वादिसंक्रान्तिपौर्णमसीवैधृतिव्यतीपातश्राद्धेषुदर्शवत्पूर्वमेव

तीर्थश्राद्धेसर्वपित्रुद्देशेनपूर्वम् वार्षिकश्राद्धेपरेद्युरेवश्राद्धीयदेवतात्रयोद्देशेन वार्षिकश्राद्धदिनेनित्यतर्पणंतिलैर्नकार्यम्

सकृन्महालयेसर्वपित्रुद्देशेनपरेद्युरेव अन्येषुमहालहपक्षेष्वष्टकान्वष्टकापूर्वेद्युः

श्राद्धेषुमाध्यावर्शार्धोदयगजच्छायाषष्ठीभरणीमघाश्राद्धेषुहिरण्यश्राद्धेचानुव्रज्यतर्पणंश्राद्धीयदेवतोद्देशेन

श्राद्धसंपातेतुयदितत्प्रसङ्गसिद्धिस्तदातदीयमेवतर्पणम् तन्त्रत्वेतुपूर्वतर्पणवतां

पश्चात्तर्पनवतांचश्राद्धानांसमसंख्यत्वेआदावन्तेवातर्पणम् विषमसंख्यत्वेबह्वनुरोधेन

संक्रान्तिषुग्रहणेपित्रोः श्राद्धेदर्शेव्यतीपातेपितृव्यादिश्राद्धेमहालयेचनिषिद्धेपिदिनेश्राद्धाङ्ग तिलतर्पणंकार्यमितिकेचित्

अन्येतुसर्वत्राश्राद्धाङ्गतर्पणेकोपितिथ्यादिनिषेधोनेत्याहुः ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP