चाणक्यनीतिदर्पणाः - पञ्चमोऽध्यायः

आर्य चाणक्यने आपल्या नीतिशास्त्र या ग्रंथात आदर्श जीवन मूल्ये सविस्तर सांगितली आहेत.

Nitishastra is a treatise on the ideal way of life, and shows Chanakya's in depth study of the Indian way of life.


गुरुरग्निर्द्वि जातीनां वर्णानां ब्राह्मणो गुरुः ।

पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥१॥

यथा चतुर्भिः कनकं पराक्ष्यते

निघर्षणं छेदनतापताडनैः ।

तथा चतुर्भिः पुरुषः परीक्ष्य़ते

त्यागेन शीलेन गुणेन कर्मणा ॥२॥

तावद्भयेन भेतव्यं यावद् भयमनागतम् ।

आगतं तु भयं वीक्ष्यं प्रहर्तव्यमशंकया ॥३॥

एकोदरसमुद् भूता एकनक्षत्रजातकाः ।

न भवन्ति समाः शीला यथा बदरिकण्टकाः ॥४॥

निःस्पृहो नाधिकारी स्यान्नाकामो मण्डनप्रियः ।

नाऽविदग्धः प्रियंब्रूयात् स्पष्टवक्ता न वञ्चकः ॥५॥

मूर्खाणां पण्डिता द्वेष्या अधनानां महाधनाः ।

वरांगना कुलस्त्रीणां सुभगानां च दुर्भगा ॥६॥

आलस्योपगता विद्या परहस्तगतं धनम् ।

अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥७॥

अभ्यासाध्दार्यते विद्या कुलं शीलेन धार्यते ।

गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥८॥

वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।

मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम् ॥९॥

अन्यथा वेदपाण्डित्यं शास्त्रमाचारमन्यथा ।

अन्यथा वदता शांतंलोकाःक्लिश्यन्ति चाऽन्यथा ॥१०॥

दारिद्र्यनाशनं दान शीलं दुर्गतिनाशनम् ।

अज्ञाननाशिनी प्रज्ञा भावना भयनाशिनी ॥११॥

नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः ।

नास्ति कोपसमो वहि नर्नास्ति ज्ञानात्परं सुखम् ॥१२॥

जन्ममृत्युं हि यात्येको भुनक्त्येकं शुभाशुभम् ।

नरकेषु पतत्येक एको याति परां गतिम् ॥१३॥

तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम् ।

जिताक्षस्य तृणं नारी निःस्पृहस्य तृणं जगत् ॥१४॥

विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।

व्यधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥१५॥

वृथा वृष्टिस्समुद्रेषु वृथा तृप्तेषु भोजनम् ।

वृथा दानं धनाढ्येषु वृथा दीपोऽदीवाऽपि च ॥१६॥

नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम् ।

नास्तिचक्षुः समं तेजो नास्ति धान्यसमं प्रियम् ॥१७॥

अधना धनमिच्छन्ति वाचं चैव चतुष्पदः ।

मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्तिदेवताः ॥१८॥

स्त्येन धार्यते पृथ्वी स्त्येन तपते रविः ।

स्त्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥१९॥

चला लक्ष्मीश्चलाः प्राणश्चले जीवितमन्दिरे ।

चलाऽचले च संसारे धर्म एको हि निश्चलः ॥२०॥

नराणां नापितो धूर्तः पक्षिणां चैव वायसः ।

चतुष्पदां श्रृगालस्तु स्त्रीणां धुर्ता च मालिनी ॥२१॥

जनिता चोपनेता च यस्तु विद्यां प्रयच्छति ।

अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥२२॥

राजपत्नी गुरोः पत्नी मित्र पत्नी तथैव च ।

पत्नी माता स्वमाता च पञ्चैता मातरः स्मृता ॥२३॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP