अष्टावक्र गीता - अध्याय २

Ashtavakra gita is a perfect moral of life.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.The Ashtavakra Gita is an Advaita Vedanta scripture which documents a dialogue between the Perfect Master Ashatavakra and Janaka, the King of Mithila.


॥ जनक उवाच ॥
अहो निरंजनः शान्तो बोधोऽहं प्रकृतेः परः ।
एतावन्तमहं कालं मोहेनैव विडंबितः ॥१॥
यथा प्रकाशयाम्येको देहमेनं तथा जगत् ।
अतो मम जगत्सर्वमथवा न च किंचन ॥२॥
स शरीरमहो विश्वं परित्यज्य मयाधुना ।
कुतश्चित् कौशलाद् एव परमात्मा विलोक्यते ॥३॥
यथा न तोयतो भिन्नास्तरंगाः फेनबुद्बुदाः ।
आत्मनो न तथा भिन्नं विश्वमात्मविनिर्गतम् ॥४॥
तन्तुमात्रो भवेद् एव पटो यद्वद् विचारितः ।
आत्मतन्मात्रमेवेदं तद्वद् विश्वं विचारितम् ॥५॥
यथैवेक्षुरसे क्लृप्ता तेन व्याप्तैव शर्करा ।
तथा विश्वं मयि क्लृप्तं मया व्याप्तं निरन्तरम् ॥६॥
आत्मज्ञानाज्जगद् भाति आत्मज्ञानान्न भासते ।
रज्ज्वज्ञानादहिर्भाति तज्ज्ञानाद् भासते न हि ॥७॥
प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः ।
यदा प्रकाशते विश्वं तदाहं भास एव हि ॥८॥
अहो विकल्पितं विश्वमज्ञानान्मयि भासते ।
रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा ॥९॥
मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति ।
मृदि कुंभो जले वीचिः कनके कटकं यथा ॥१०॥
अहो अहं नमो मह्यं विनाशो यस्य नास्ति मे ।
ब्रह्मादिस्तंबपर्यन्तं जगन्नाशोऽपि तिष्ठतः ॥११॥
अहो अहं नमो मह्यं एकोऽहं देहवानपि ।
क्वचिन्न गन्ता नागन्ता व्याप्य विश्वमवस्थितः ॥१२॥
अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः ।
असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम् ॥१३॥
अहो अहं नमो मह्यं यस्य मे नास्ति किंचन ।
अथवा यस्य मे सर्वं यद् वाङ्मनसगोचरम् ॥१४॥
ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवं ।
अज्ञानाद् भाति यत्रेदं सोऽहमस्मि निरंजनः ॥१५॥
द्वैतमूलमहो दुःखं नान्यत्तस्याऽस्ति भेषजं ।
दृश्यमेतन् मृषा सर्वं एकोऽहं चिद्रसोमलः ॥१६॥
बोधमात्रोऽहमज्ञानाद् उपाधिः कल्पितो मया ।
एवं विमृशतो नित्यं निर्विकल्पे स्थितिर्मम ॥१७॥
न मे बन्धोऽस्ति मोक्षो वा भ्रान्तिः शान्तो निराश्रया ।
अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितम् ॥१८॥
सशरीरमिदं विश्वं न किंचिदिति निश्चितं ।
शुद्धचिन्मात्र आत्मा च तत्कस्मिन् कल्पनाधुना ॥१९॥
शरीरं स्वर्गनरकौ बन्धमोक्षौ भयं तथा ।
कल्पनामात्रमेवैतत् किं मे कार्यं चिदात्मनः ॥२०॥
अहो जनसमूहेऽपि न द्वैतं पश्यतो मम ।
अरण्यमिव संवृत्तं क्व रतिं करवाण्यहम् ॥२१॥
नाहं देहो न मे देहो जीवो नाहमहं हि चित् ।
अयमेव हि मे बन्ध आसीद्या जीविते स्पृहा ॥२२॥
अहो भुवनकल्लोलैर्विचित्रैर्द्राक् समुत्थितं ।
मय्यनंतमहांभोधौ चित्तवाते समुद्यते ॥२३॥
मय्यनंतमहांभोधौ चित्तवाते प्रशाम्यति ।
अभाग्याज्जीववणिजो जगत्पोतो विनश्वरः ॥२४॥
मय्यनन्तमहांभोधावाश्चर्यं जीववीचयः ।
उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभावतः ॥२५॥

N/A

References : N/A
Last Updated : May 29, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP