संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
बव्ह्रचकारिकायाम्‌

धर्मसिंधु - बव्ह्रचकारिकायाम्‌

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


बव्ह्रचकारिकायाम नित्यंपाकायशालाग्नेरेकदेशस्यकार्यतः ।

पाकार्थमुल्मुकंह्रत्वा तत्रपक्त्वामहानसे १ वैश्वदेवोऽग्न्यगारेस्यात्पाकार्थोग्निश्चलौकिकः ।

भूरिपाकोभवेद्यत्रश्राद्धादावुत्सवेषुच २ कृतेचवैश्वदेवेऽथलौकिकोनैवकार्यतः ।

दीपकोधूपकश्चैवतापार्थयश्चनीयते ३ सर्वेतेलौकिकाज्ञेयास्तावन्मात्रापवर्गतः ।

बहुधाविह्रतोह्यग्निरावसथ्यात्कथंचन ४ यावदेकोपितिष्ठेततावदन्योनमथ्यते ।

वैश्वदेवात्तथाहोमात्पाकज्ञेयंनैवमन्थनम् ५ पचनाग्नावपक्त्वाहः पुनराधानमर्हति ।

आरोपितारणीचोभेएकावायदिनश्यति ६ तत्राग्न्याधेयमिच्छन्तिपुनराधेयमेववा ।

अथानारोपितारण्योःक्षयेग्राह्येनवेपुनः ७ तदलाभेयदोद्वायादत्रस्यात्पुनराहितिः ।

शूद्रोदक्यान्त्यजैश्चैवपतितामेध्यरासभैः ८ अनारूढारणीस्पर्शेतोविहायान्ययोर्ग्रहः ।

आरूढारणिस्पर्शेपुनराधेयमुक्त भवतंनः समेत्यप्सुमज्जयेदूषितारणी ९ एकारण्येवदुष्टाचेत्तामेवाप्सुनिमज्जयेत ।

तत्रान्यारणिलाभात्प्रागुद्द्वातेपुनराहितिः १० उद्वातेअग्नौनष्टे नष्टायामरणौयावदग्निस्तिष्ठतिवेश्मनि ।

तावद्धोमादिकंकृत्वातन्नाशेपुनराहरेत ११ अत्रैकारणिनाशेन्यामेकांमत्रेणोपादायोभाभ्यांमन्थनमितिकेचित

अवशिष्टांतामेवछित्वामन्थनमित्यपरे एकस्याःदोषेप्यरणिद्वयंत्यक्त्वानूतनद्वयोपादानमितिनारायणवृत्याशयः

अयमरणिविचारः श्रौतस्मार्तसाधारणः सर्वशाखासाधारणश्च ॥

N/A

References : N/A
Last Updated : May 29, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP