संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथौपासनहोमः

धर्मसिंधु - अथौपासनहोमः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथौपासनहोमः स्वयंहोमोमुख्यः अशक्तौपत्नीपुत्रःकुमारीभ्राताशिष्योभगिनेयोजामाताऋत्विग्वा

पुत्रादिर्दम्पत्योः संनिधानेएकतरसंनिधानेवाजुहुयात त्यांगयजमानः पत्नीवाकुर्यात

तस्याअसंनिधौतदाज्ञयाऋत्विगादिरपि पत्न्याऋतुप्रसवोन्मादादिदोहेतुतदाज्ञांविनापिऋत्विगादिस्त्यांगकुर्यात

स्वयंहोमेफलंयत्स्यादन्यैर्होमेतदर्धकम । पर्वणितुस्वयमेवजुहुयात तत्रप्रातःसूर्योदयात्प्राकसायंसूर्यास्तात्प्राक

अग्नीनांगृह्याग्नेर्वाप्रादुष्करणंकृत्वासूर्योदयास्तोत्तर्होमःकार्यः प्रादुष्करणकालातिक्रमे

ॐभुर्भूवःस्वःस्वाहेतिमंत्रेणस्त्रुवाज्याहुतिरूपंसर्वप्रायश्चित्तमाज्यसंस्कारपूर्वकंकृत्वाहोमः

सूर्योदयोत्तरंदशघटिकापर्यन्तप्रातर्होमकालोमुख्यः तत आसायंगौणः सायंनवनाडिकापर्यन्तंमुख्यः

तत आप्रातर्गौणः मुख्यकालातिक्रमेकालातिक्रमानिमित्तप्रायश्चित्तपूर्वकमुकहोमंकरिष्ये

इतिसंकल्प्याज्यंसंस्कृत्यस्रुचिचतुर्गृहीतंगृहीत्वासायंकालेदोषावस्तर्नमः

स्वाहेतुहुत्वाप्रातस्तुप्रातर्वस्तर्नमःस्वाहेतिहत्वाहौम्यंसंस्कृत्यनित्यहोमः

श्रौतंहोमंकृत्वास्मार्तः होमः केचित्स्मार्तहोमंपूर्वमाहुः आधानेपुनराधानेसायमुपक्रमोहोमः

सायंप्रातर्होमयोर्द्रव्यैक्यंकर्त्रैक्यंच प्रातर्यजमानःकर्तचित्कृर्तृभेदोनदोषाय ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP