संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथकात्यायनानांसंध्याप्रयोगः

धर्मसिंधु - अथकात्यायनानांसंध्याप्रयोगः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथकात्यायनानांसंध्याप्रयोगः ॥

अचम्यभूःपुनातुभुवःपुनातुस्वःपुनातुभुर्भुवःस्वःपुनात्वित्यादिपावनंकृत्वाअपवित्रःपवित्रोवेतिविष्णुंस्मृत्वा

आसनादिविधिकृत्वाद्विराचम्य प्राणानायम्यपूर्ववत्संकल्प्य गायत्रीत्र्यक्षरांबालांसाक्षसूत्रकमण्डलुम ।

रक्तवस्त्रांचतुर्वक्त्रांहंसवाहनसंस्थिताम १ ब्रह्माणींब्रह्मदैवत्यांब्रह्मलोकनिवासिनीम ।

आवाहयाम्यहंदेवीमायातीसूर्यमण्डलात २ आगच्छवरदेदेवित्र्यक्षरेब्रह्मवादिनि ।

गायत्रीछन्दसांमातर्ब्रह्मयोनेनमोस्तुते ३ इत्यावाह्यपूर्ववत आपोहिष्ठेतितृचेनमार्जयेत

सूर्यश्चेतिमंत्रस्यनारायणऋषिःसूर्योदेवताअनुष्टुपछन्दःआचमनेविनियोगः सूर्यश्चेतिजलंप्राश्याचम्य

आपोहिष्ठेतिनवऋङमार्जनंकुर्यादितिकेचिदाहुः

बहवस्तुसंकल्पाद्यन्तेसूर्यश्चेतिमंत्राचमनंकृत्वाऽऽपोहिष्ठेतितिसृभिःप्रतिपादंमार्जनान्तेऽघमर्षणंकार्यनतुमार्जनद्वयमित्याहुः

सुमित्र्यादुर्मित्र्याइतिद्वयोःप्रजापतिऋषिः आपोदेवतायजुश्छं दःआदानप्रक्षेपेवि० सुमित्र्यान

आपओषधयःसन्तुइतिजलमादायदुर्मित्र्यास्तस्मैसन्तु योस्मान्द्वेष्टियंचवयंद्विष्म इतिवामभुविक्षिपेत ।

ततऋतंचेतितृचेनद्रपदेतित्रिरक्तऋचावाघमर्षणंपुर्ववत सायंप्रातश्चत्रिरघ्यदानंपुष्पयुतजलेनपूर्ववत मध्याह्नेसकृत

गायत्र्यापरितउक्षणम अथोपस्थानम उद्वयमुदुत्यमितिद्वयोःप्रस्कण्वःसूर्योनुष्टुपगायत्र्यौ चित्रंदेवानामाङ्गिरसःकुत्सःसूर्यस्त्रिष्तुप

तच्चक्षुर्दध्यङगाथर्वणःसूर्यःपुरउष्णिक उपस्थाने० उद्वयंतमस० १ उदुत्यंजा० १ चित्रंदे० १ तच्चक्षुर्देवहितं०

इतिऊर्ध्वबाहुःसूर्यमुदीक्षमाणोयथाशाखंपठेत प्राणायामादिविधायन्यासमुद्रातर्पणादिविधिः कृताकृतः

तेजोसीतिपरमेष्ठीप्रजापतिराज्यंयजुः आवाहने० तेजोसिशुक्रमस्यमृतमसिधामनामासिप्रियंदेवानामनाधृष्टंदेवयजनमसि

परोरजसइतिविमलःपरमात्मानुष्टुप गायत्र्युपस्था०

गायत्र्यस्येकपदीद्विपदीत्रिपदीचतुष्पद्यपदसिनहिपद्यसेनमस्तेतुरीयायदर्शनायपदायपरोरजसेसावदोम

ततोगायत्रीजपान्तंपूर्ववत ततःशक्तेनविभ्राडित्यनुवाकेनपुरुषसूक्तेनवाशिवसंकल्पेनवामण्डलब्राह्मणेनवोपस्थानंकार्यम

अत्रऋकशाखोक्तवद्दिग्वन्दनंकेचित्कुर्वन्ति ततउत्तमेशिखरे० देवागातुविदोगातुमितिमंत्राभ्याविसर्जनम

भूम्युपसंग्रहंनमस्कारादिपूर्ववत इतिकात्यायनसंध्या ।

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP