संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथतैत्तिरीयाणांसंकल्पान्तंर्ववत

धर्मसिंधु - अथतैत्तिरीयाणांसंकल्पान्तंर्ववत

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथतैत्तिरीयाणांसंकल्पान्तंर्ववत गायत्रीध्यात्वा आयातुवरदादेवीअक्षरंब्रह्मसंमितम ।

गायत्रीछन्दसांमातरिदंब्रह्मजुषस्वमे १ सर्ववर्णेमहादेविसंध्याविद्येसरस्वति ।

अजरेअमरेदेविसर्वदेविनमोस्तुते २ ओजोसि सहोसिबलमासिभ्राजोसि

देवानांधामनामासिविश्वमसिविश्वायुःसर्वमसिसर्वायुरभिभूरोमगायत्रीमावाहयामि

सावित्रीमावाहयामि सरस्वतीमावाहया० छन्दऋषीनावह० श्रियं० ह्रियमावाहयामि

इत्यावाह्यमार्जनंपूर्ववत आपोवाइद सर्वंविश्वाभुतान्यापःप्राणावाआपः पशव

आपोन्नमापोमृतमापःसम्राडापोविराडापःस्वराडापश्छन्दास्यापोज्योती ष्यापोयजूष्यापः

सत्यमापः सर्वादेवताआपोभूर्भुवःसुवराप आप्ॐमितिजलमभिमन्त्र्यसूर्यश्चेतिपूर्ववन्मन्त्राचनमन

दधिक्राव्णोअकारिषमितिऋचमुक्त्वाआपोहिष्ठेतितिसृभिःहिरण्यवर्णाइतिपवमानः सुवर्चन

इत्यनुवाकेनचऋगन्तेमार्जनान्तेऽघमर्षणंकृत्वानकृत्वावार्घ्यदानादिगायत्रीजपान्तमावाहनंमंत्रवर्ज्यपूर्ववत

न्यासविधेरवैदिकत्वमुक्तमेव जपान्तेउपस्थानं मित्रस्यचर्षणी० । मित्रोजनान० । प्रसमित्र० ।

यच्चिद्धिते० । यत्किंचेदं० । कितवासोयद्रि० । इतिषड्‌भिरुपस्थाय प्राच्यैदिशेयाश्चदेवताएतस्यांप्रतिवसन्त्येताभ्यश्चनमोनम

इत्यादिनाअधरान्ताःषट्‌नत्वाअवांतरायैदिशेयाश्चदेवताइतिचनत्वानमोगङ्‌गायमुनयोर्मध्येइत्यादिनामुनिदेवान्नत्वास

स्रवंतुदिशोइतिमंत्रंपठित्वागोत्राद्युच्चार्यपूर्ववदभूम्युपसंग्रहंनत्वापूर्ववत्संध्याविसृजेदिति ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP