संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथमूत्रपुरीषोत्सर्गादिविधिः

धर्मसिंधु - अथमूत्रपुरीषोत्सर्गादिविधिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथमूत्रपुरीषोत्सर्गादिविधिःतृणाद्यन्तर्हितभूमौशिरःप्रावृत्ययज्ञोपवीतंनिवीतंपृष्ठतः

कर्णेवाकृत्वाघ्राणपिधानंकृत्वादिवासंध्ययोरुद्रङमुखोरात्रौदक्षिणामुखौमौनी अनुपानत्क

आसीनोमूत्रपुरीषोत्सर्गकुर्यात यज्ञोपवीतस्यनिवीतत्वंविनैवकर्णेधारणमनाचारः मार्गजलदेवालयनदीतीरादौमलोत्सर्गोनिषिद्धः

हस्तान्द्वादशसंत्यज्यमूत्रंकुर्याज्जलाशयात । अवकाशेषोदशवापुरीषेतु चतुर्गुणम १ प्रत्यर्कादिमेहनेस्वशकृद्दर्शनेचसूर्यगावापश्येत

ततोगृहीतशिश्नउत्थाय शौचंकुर्यात मूत्रोत्सर्गेशुद्धमृदंसकृतलिङेत्रिवारंवामकरोद्विवारमुभयोः करयोर्दत्वातावद्वारंजलेनक्षालयेत

मूत्रातुद्विगुणंशुक्रेमैथुनेत्रिगुणंस्मृतम । पुरीषेतु एकालिङ्गेगुदेतिस्रस्तथावामकरेदश । उभयोः करयोःसप्तसप्तत्रिर्वापिपादयोः

१ द्विगुणंब्रह्मचर्येस्याद्यतीनांचचतुर्गुणम एवंमुद्भिर्जलैः शौचंतदर्धंनिशिकीर्तितम २ तदर्धमातुरेशूद्रस्त्रीबालानांतदर्धतः

उक्तसंख्ययागन्धलेपक्षयाभावेयावत्तातत्क्षयस्तावच्छौचम मृदार्द्रामलकमात्रा जलालाभेनशौचविलम्बेसचलंस्नानम

यथोक्तशौचाकरणेतु गायत्र्यष्टशतंजप्त्वाप्राणायामत्रयंचरेत । अथमूत्रेचत्वारोगण्डूषाःपुरीषेद्वादशाष्टौवाभोजनान्तेषोडशकार्याः ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP