संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथवधूप्रवेशः

धर्मसिंधु - अथवधूप्रवेशः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथवधूप्रवेशः विवाहात्षोडशदिनान्तःसमदिनेशुपञ्चमसप्तमनवमदिनेषुचरात्रौस्थिरलग्नेनूतनभिन्नगृहेवधूप्रवेशःशुभः

प्रथमदिनेपिकेचित षष्ठदिनेनिषेधःप्रयोगरत्‍नोक्तोनिर्मूलः

षोडशदिनेमध्येपूर्वोक्तदिनेषुप्रवेशोक्तनक्षत्रतिथिवारगोचरस्थचन्द्रबलाद्यभावेपिगुरुशुक्रास्तादावपिनदोषः

व्यतीपातेक्षयतिथौग्रहणेवैधृतौतथा । अमासंक्रान्तिविष्ट्यादौप्राप्तकालेपिनाचरेत

१ प्रथमनववधूप्रवेशेविवाहार्थगमनेचप्रतिशुक्रदोषोनास्ति द्विरागमने एवसंमुखशुक्रदोषः

षोडशदिनोत्तरंमासपर्यन्तंविषमदिनेषुमासोत्तरंविषममासेषुवर्शोत्तरंविषमवर्षेषुवधूप्रवेशःशुभः

समेष्वेतेषुवैधव्यादिदोषः पञ्चमवर्शोत्तरंसमविषमविचारोनास्ति षोडशदिनोत्तरंवधूप्रवेशेनक्षत्राणि

अश्विनीरोहिणीमृगपुष्यमघोत्तरात्रयहस्ताचित्रास्वात्यनुराधामूलश्रवणधनिष्ठारेवत्यःशुभाः

मासोत्तरंमार्गशीर्षमाघफाल्गुनवैशाखज्येष्ठमासाःशुभाः

चतुर्थीनवमीचतुर्दशीपञ्चदश्यमावास्याभिन्नतिथयोरविभौमेतवारश्चशुभाः इतिनववधूप्रवेशः ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP