संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथामावास्यायांकातीयानांविशेषः

धर्मसिंधु - अथामावास्यायांकातीयानांविशेषः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

अमाविषयेत्रेधाविभक्तदिनस्यप्रथमोभोगः पूर्वाह्णः द्वितीयोभागोमध्याह्नः तृतीयोभागोऽपराह्णः

तत्ररात्रिसंधौ प्रतिपद्दिनेचन्द्रदर्शनेसत्यपिपरेषामिवकातीयानामपिसंधिदिनेपिण्डपितृयज्ञोन्वाधानंचपरदिनेचेष्टिरितिनिर्विवादम्

पूर्वाह्नेदिनद्वितीयभागाख्यमध्याह्नेच संधौसंधिपूर्वदिनेन्वाधानपिण्डपितृयज्ञौसंधिदिनेचेष्टिः

तदाचतुर्दशिदिनेऽमावास्यादिनतृतीयभागाख्यापराह्णेयदिपूर्णव्याप्तिस्तर्हि अमायुक्तेऽपराह्णे पिण्डपितृयज्ञइतिनसंदेहः

यदितृतीयभागाख्यापराह्णान्त्यभागेपराह्णैकदेशेमवास्याव्याप्तिस्तर्ह्यमावास्यायांप्राप्तायांपिण्डपितृयज्ञोनचतुरदश्यामित्येकः पक्षः

चतुर्दश्यन्त्येभागेपिण्डपितृयज्ञश्चन्द्रस्यपरमक्षीणत्वादित्यपरः पक्षः अथापराह्णसंधौचत्वारः पक्षाः

संधिदिनेएवदिनतृतीयभागाख्यापराह्णेऽमायाः

पूर्णव्याप्तिरितिप्रथमःपक्षः यथाचतुर्दशी २९ अमा ३० प्रतिपत् २९ दिनमानंचत्रिंशत् ३० अत्रसंधिदिनेन्वाधानपितृयज्ञौपरदिनेयागः

संधिपूर्वदिनेएवोक्तापराह्णेऽमायाःपूर्णव्याप्तिरितिद्वितीयःपक्षः यथाचतुर्दशी २० अमा २२ प्रतिपत् २४ दिनं ३०

अत्रसंधिदिनात्परदिनेमुहूर्तत्रयात्मकप्रातःकालेप्रतिपत्पादत्रयावच्छिन्नयागकाललाभात्संधिदिनेन्वाधानपितृयागौरपतिपादिचेष्टिरितिकौस्तुभमतम् ।

त्रिमुहूर्ताद्वितीयाचेत्प्रतिप बापाराह्णिकी । अन्वाधानं चतुर्दश्यांपरतःसोमदर्शनात् १ इति वचनाच्चतुर्दश्यांपिण्डापितृयज्ञोपवासौ

संधिदिनेचेष्टिरितिपरमतम् अथापरंद्वितीयपक्षोदाहरणम् चतुर्दशी १८ अमा १८ प्रतिपत् १९ दिनम् २७ अत्रप्रतिपद्दिनेप्रातः

पादत्रयावच्छिन्नयागकालाभात्संधिदिने एवसर्वमतेकात्यायनानामिष्टिःपूर्वदिनेपिण्डपितृयज्ञोपवासौ अथ

दिनद्वयेसाम्येनवैषम्येनवैकदेशय्वाप्तिरितितृतीयः पक्षः यथा चतुर्दशी २५ अमा २५ प्रतिपत् २४ दिनमानं ३०

इयंसाम्येनापराह्णव्याप्तिः

अत्रकौस्तुभमतपरमतोक्तरीत्याद्वेधानिर्णयः यथावा चतुर्दशी २५ अमा २० प्रतिपत् १७ दिनं २७ इयमपिसाम्येनैकदेशव्याप्तिः

अत्रसर्वमतेसंधिदिनीववातीयेष्टिः पूर्वदिनेचपिण्डपितृयज्ञोपवासौ अथ वैषम्येणैकदेशव्याप्तिः चतुर्दशी २५ अमा प्रतिपत् २३ दिनं ३०

अत्रपिपूर्वोक्तमतद्वयेनदेधानिर्णयोज्ञेयः यथा वा चतुर्दशी २५ अमा २२ प्रतिपत् १८ दिनं ३० इयमपि वैषम्येणैकदेशव्याप्तिः

अत्रापिअर्वमतेसंधिदिनेकातीयेष्टिश्चतुर्दश्यामुपवासपिण्डपितृयज्ञौ यथावा चतुर्दशी २५ अमा २७ प्रतिपत् २९ दिनं ३०

अत्रसंदिदिनेन्वाधानयागौप्रतिपदीष्टिः संधिदिनेएवैकदेशव्याप्तिरितिचतुर्थः पक्षः यथा चतुर्दशी ३१ अमा २६ प्रतिपत् २३ दिनं ३०

यथावा

चतुर्दशी २८ अमा २२ प्रतिपत् १७ दिनं २७ अत्रोभयत्रापि संधिदिनेएवपिण्डपितृयज्ञान्वाधानेयागस्तुपरेह्निप्रतिपदि

एवंचकात्यायनमतेपिसर्वत्रोदाहरणेचन्द्रदर्शननिषेधप्रतिपालनंन संभवति

किंतुकुत्रचिन्नेषेधादरात्पूर्वत्रयागांदिकंक्वचित्तुचन्द्रदर्शनवत्येवदिने

एवंपुण्डपितृयज्ञोपीतिध्येयम् दर्शश्राद्धार्थ्ममावास्यानिर्णयः सर्वसाधारणोऽग्रेपृथवेववक्ष्यते ॥

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP