संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
व्रतदिननिर्णयः

धर्मसिंधु - व्रतदिननिर्णयः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

तत्रव्रताधिकारिणोद्विविधावैष्णवाःस्मार्ताश्व तत्रयद्यपियस्यदीक्षास्तिवैष्णवीत्यादिलक्षणयुक्तावैष्णवास्तद्भिन्नाःस्मार्ताइतिमहानिबन्धेषूक्तं

तथापिस्वपारंपर्यप्रसिद्धमेववैष्णवत्वंस्मार्तत्वंचवृद्धामन्यन्तइति सिन्धूक्तमेवसर्वदेशेसर्वशिष्टपरिगृहीतंप्रचरति

वेधोपिद्विविधःअरुनोदयदशमीवेधः

सूर्योदयेतद्वेधश्व सूर्योदयात्प्राक्‌चतुर्घटिकात्मकोऽरुणोदयः

सूर्योदयस्तुस्पष्टःतेनषट्‌पञ्चाशद्‌घटिकानन्तरंपलादिमात्रदशमीप्रवेशेऽरुणोदयवेधोवैष्णव विषयः

षष्ठिघटिकात्मकसूर्योदयोत्तरंपलादिनमात्रदशमीसत्वे सूर्योदयवेधः स्मार्ताविषयः ज्योतिर्विदादिविवादेनवेधादिसंदेहेतु

बहुवाक्यविरोधेनब्राह्मणेषु विवादिषु ।

एकादशींपरित्यज्यद्वादशीसमुपोषयेत् १ तथाचैकादशीद्विविधा शुद्धांविद्धाच अरुणोदयवेधवतीविद्धातांत्यक्त्वावैष्णवैर्द्वादश्येवोपोष्या

अरुणोदयवेधरहिताशुद्धासाचचतुर्विधा एकादशीमात्राधिक्यवती द्वादशीमात्राधिक्यवती उभयाधिक्यवती अनुबयाधिक्यवतीचेति

अत्राधिक्यंसूर्योदयोत्तरं सत्वम् तत्रोदाहरणम् ।

दशमीनाड्यः ५५ एकादशी ६०।१ द्वादश्याःक्षय ५८ इयमेकादशीमात्राधिक्यवतीशुद्धावैष्णवैः परोपोष्या स्मार्तगृहस्थैःपूर्वा ।

अथ दशमी ५५ एकादशी ५८ द्वादशी ६०।१ इयं शुद्धाद्वादशीमात्राधिक्यवती अत्रवैष्णवानांद्वादश्यामुपोषणं स्मार्तानांपूर्वा ।

अथ दशमी ५५ एकादशी ६०।१ द्वादशी ५ इयंशुद्धाउभयाधिक्यवती । अत्रसर्वैर्वैष्णवेःस्मार्तैश्वपरेवोपोष्या ।

अथदशमी ५५ एकादशी ५७ द्वादशि ५८ इयमनुभयाधिक्यवतीशुद्धा वैष्णवैः स्मार्तैश्वपूर्वैवोपोष्या ।

इतिसंक्षेपतोवैष्णवनिर्णयः ॥

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP