संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
विघ्नेशं वन्दनं

धर्मसिंधु - विघ्नेशं वन्दनं

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


विघ्नेशं वन्दनं कुर्वे धर्मसिन्धुसुबोधने

कृष्णस्य मे प्रयत्नस्य सिद्धिः सुष्ठु भवत्विति ॥१॥

श्रीविठ्ठलं सुकरुणार्णवमाशुतोषं । दीनेष्टपोषमघसंहतिसिंधुशोषम् ॥

श्रीरुक्मिणीमतिमुषं पुरुषं परं तं । वन्दे दुरन्तचरितं ह्रदि संचरन्तम् ॥१॥

वन्दे प्रतिघ्नन्तमघानि शंकरं । धत्तां स मे मूर्ध्नि दिवानिशं करम् ॥

शिवां च विघ्नेशमथो पितामहं । सरस्वतीमाशु भजेऽपि तामहम् ॥२॥

श्रीलक्ष्मी गरुडं सहस्त्रशिरसं प्रद्युम्नमीशं कपिम् ।

श्रीसूर्य विधुभौमविद्‌गुरुकविच्छायासुतान्षण्मुखम् ।

इन्द्राद्यान्विबुधान्गुरूंश्च जननी तातं त्वनन्ताभिधम् ।

नत्वार्यान्वितनोमि माधवमुखान्धर्माब्धिसारं मितम् ॥३॥

दृष्ट्वा पूर्वनिबन्धान्निर्णयसिन्धुक्रमेण सिद्धार्थान् ।

प्रायेण मूलवचनान्युज्झित्य लिखामि बालबोधाय ॥४॥

N/A

References : N/A
Last Updated : April 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP