संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
सप्तमः सर्गः - गीतम् १५

गीतगोविन्दम् - सप्तमः सर्गः - गीतम् १५

गीतगोविन्दम्

समुदितमदने रमणीवदने चुम्बनवलिताधरे ।

मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥

रमते यमुनापुलिनवने विजयी मुरारिरधुना ॥१॥

घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने ।

कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने ॥२॥

घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते ।

मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥३॥

जितबिसशकले मृदुभुजयुगले करतलनलिनीदले ।

मरकतवलयं मधुकरनिचयं वितरति हिमशीतले ॥४॥

रतिगृहजघने विपुलापघने मनसिजकनकासने ।

मणिमयरसनं तोरणहसनं विकरति कृतवासने ॥५॥

चरणकिसलये कमलनिलये नखमणिगणपूजिते ।

बहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥६॥

रमयति सदृशं कामपि सुभृशं खलहलधरसोदरे ।

किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥७॥

इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके ।

कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके ॥८॥

नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।

पश्याद्य प्रियसम्गमाय दयितस्याकृष्यमाणं गणै- रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥४५॥

N/A

References : N/A
Last Updated : April 12, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP