संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
प्रथमः सर्गः

गीतगोविन्दम् - प्रथमः सर्गः

गीतगोविन्दम्


सामोददामोदरः ॥

मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै- र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।

इत्थं नन्दनिदेशितश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥१॥

वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती ।

श्रीवासुदेवरतिकेलिकथासमेतं एतं करोति जयदेवकविः प्रबन्धम् ॥२॥

वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरां जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुते ।

शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन- स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥३॥

यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् ।

मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥४॥॥

N/A

References : N/A
Last Updated : April 11, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP