मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
देवी खड्गमाला स्तोत्ररत्नम

देवी स्तोत्र - देवी खड्गमाला स्तोत्ररत्नम

देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याण्कारी तसेच दुष्टांचा संहार.करणारीही आहे.

The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times.


ह्रींकाराननगर्भितानलशिखां सौः क्लींकलाम भिब्रतीं सौवर्णाम्बरधारिणीं वरसुधाधौतां त्रिनेत्रोज्ज्वलां ।

वन्दे पुस्तकपाशमन्कुशधरां स्रग्भूषितामुज्ज्वलां त्वां गौरीं त्रिपुरां परात्परकलां श्रीचक्रसञ्चारिणीम॥

अस्य श्री शुद्धशक्तिमालामहामन्त्रस्य, उपस्थेन्द्रियाधिष्ठायी वरुणादित्य ऋषिः

दैवी गायत्री छन्दः सात्विक ककारभट्टारकपीठस्थित कामेश्वराङ्कनिलया महाकामेश्वरी श्री ललिता भट्टारिका देवता,

ऐं बीजं क्लीं शक्तिः, सौः कीलकं मम खड्गसिद्ध्यर्थे सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः, मूलमन्त्रेण षडङ्गन्यासं कुर्यात ।

ध्यानम

तादृशं खड्गमाप्नोति येव हस्तस्थितेनवै

अष्टादशमहाद्वीपसम्राड्भोक्ताभविष्यति

आरक्ताभांत्रिणेत्रामरुणिमवसनाम रत्नताटङ्करम्याम

हस्ताम्भोजैस्सपाशाम्कुशमदनधनुस्सायकैर्विस्फुरन्तीम

आपीनोत्तुङ्गु वक्षोरुहकलशलुठत्तारहारोज्ज्वलाङ्गीं

ध्यायेदम्भोरुहस्थामरुणिमवसनामीश्वरीमीश्वराणाम ।

लोमित्यादिपञ्च पूजाम कुर्यात, यथाशक्ति मूलमन्त्रम जपेत ।

ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमस्त्रिपुरसुन्दरि, हृदयदेवि, शिरोदेवि, शिखादेवि, कवचदेवि, नेत्रदेवि, अस्त्रदेवि, कामेश्वरि, भगमालिनि, नित्यक्लिन्ने, भेरुन्डे, वह्निवासिनि, महावज्रेश्वरि, शिवदूति, त्वरिते, कुलसुन्दरि, नित्ये, नीलपताके, विजये, सर्वमङ्गले, ज्वालामालिनि, चित्रे, महानित्ये, परमेश्वरपरमेश्वरि, मित्रेशमयि, उड्डीशमयि, चर्यानाथमयि, लोपामुद्रमयि, अगस्त्यमयि, कालतापसमयि, धर्माचार्यमयि, मुक्तकेशी, श्वरमयि, दीपकलानाथमयि, विष्नुदेवमयि, प्रभाकरदेवमयि, तेजोमयि, मनोजदेवमयि, कल्याणदेवमयि, वासुदेवमयि, रत्नदेवमयि, श्रीरामानन्दमयि, अणिमासिद्धे, लघिमासिद्धे, गरिमासिद्धे, महिमासिद्धे, ईशित्वसिद्धे, पशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्ति सिद्धे, इच्छासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, ब्राह्मि, माहेश्वरि, कौमारि, वैष्णवि, वाराहि, माहेन्द्रि, चामुन्डे, महालक्ष्मि, सर्वसङ्क्षोभिणि, सर्वविद्राविणि, सर्वाकर्षिणि, सर्ववशङ्करि, सर्वोन्मादिनि, सर्वमहाङ्कुशे, सर्वखेचरि, सर्वबीजे, सर्वयोने, सर्वत्रिखण्डे, त्रैलोक्यमोहन चक्रस्वामिनि, प्रकटयोगिनि, कामाकर्षिणि, बुद्ध्याकर्षिणि, अहंकाराकर्षिणि, शब्दाकर्षिणि, स्पर्शाकर्षिणि, रूपाकर्षिणि, रसाकर्षिणि, गन्धाकर्षिणि, चित्ताकर्षिणि, धैर्याकर्षिणि, स्मृत्याकर्षिणि, नामाकर्षिणि, बीजाकर्षिणि, आत्माकर्षिणि, अमृताकर्षिणि, शरीराकर्षिणि, सर्वाशापरिपूरक चक्रस्वामिनि, गुप्तयोगिनि, अनङ्ग कुसुमे, अनङ्गमेखले, अनङ्गमदने, अनङ्गमदनातुरे, अनङ्गरेखे, अनङ्गवेगिनि, अनङ्गाङ्कुशे, अनङ्गमालिनि, सर्वसङ्क्षोभणचक्रस्वामिनि, गुप्ततरयोगिनि, सर्वसङ्क्षोभिणि, सर्वविद्राविनि, सर्वाकर्षिणि, सर्वह्लादिनि, सर्वसम्मोहिनि, सर्वस्तम्भिनि, सर्वजृम्भिणि, सर्ववशङ्करि, सर्वरञ्जनि, सर्वोन्मादिनि, सर्वार्थसाधिके, सर्वसम्पत्तिपूरिणि, सर्वमन्त्रमयि, सर्वद्वन्द्वक्षयङ्करि, सर्वसौभाग्यदायक चक्रस्वामिनि, सम्प्रदाय योगिनि, सर्वसिद्धिप्रदे, सर्वसम्पत्प्रदे, सर्वप्रियङ्करि, सर्वमङ्गलकारिणि, सर्वकामप्रदे, सर्वदुःखविमोचनि, सर्वमृत्युप्रशमनि, सर्वविघ्ननिवारिणि, सर्वाङ्गसुन्दरि, सर्वसौभाग्यदायिनि, सर्वार्थसाधक चक्रस्वामिनि, कुलोत्तीर्णयोगिनि, सर्वज्ञे, सर्वशक्ते, सर्वैश्वर्यप्रदायिनि, सर्वज्ङानमयि, सर्वव्याधिविनाशिनि, सर्वाधार स्वरूपे, सर्वपापहरे, सर्वरक्षास्वरूपिणि, सर्वेप्सितफलप्रदे, सर्वरक्षाकर चक्रस्वामिनि, निगर्भयोगिनि, कामेश्वरि, मोदिनि, विमले, अरुणे, जयिनि, सर्वेश्वरि, कौलिनि, सर्वरोगहरचक्रस्वामिनि, रहस्ययोगिनि, बाणिनि, चापिनि, पाशिनि, अङ्कुशिनि, महाकामेश्वरि, महावज्रेश्वरि, महाभगमालिनि, सर्वसिद्धिप्रदचक्रस्वामिनि, अतिरहस्ययोगिनि, श्री श्री महाभट्टारिके, सर्वानन्दमय चक्रस्वामिनि, परापररहस्ययोगिनि, त्रिपुरे, त्रिपुरेशि, त्रिपुरसुन्दरि, त्रिपुरवासिनि, त्रिपुराश्रीः, त्रिपुरमालिनि, त्रिपुरसिद्धे, त्रिपुराम्ब, महात्रिपुरसुन्दरि, महामहेश्वरि, महामहाराज्ञि, महामहाशक्ते, महामहागुप्ते, महामहाज्ञप्ते, महामहानन्दे, महामहास्कन्धे, महामहाशये, महामहा श्रीचक्रनगरसाम्राज्ञि, नमस्ते नमस्ते नमस्ते नमः । एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः अग्निवातमहाक्षोभे राजाराष्ट्रस्यविप्लवे । लुण्ठने तस्करभये सङ्ग्रामे सलिलप्लवे, समुद्रयानविक्षोभे भूतप्रेतादिके भये अपस्मारज्वरव्याधिमृत्युक्षामादिजेभये, शाकिनी पूतनायक्षरक्षःकूष्माण्डजे भये, मित्रभेदे ग्रहभये व्यसनेष्वाभिचारिके, अन्येष्वपि च दोषेषु मालामन्त्रं स्मरेन्नरः सर्वोपद्रवनिर्मुक्तस्साक्षाच्छिवमयोभवेत, आपत्कालेनित्यपूजाम विस्तारात्कर्तुमारभेत, एकवारम जपध्यानम सर्वपूजाफलं लभेत, नवावर्णदेवीनाम, ललिताया महौजनः एकत्रगणनारूपोवेदवेदाङ्गगोचरः, सर्वागमरहस्यार्थः स्मरणात्पापनाशिनी ।

ललितायामहेशान्या माला विद्यामहीयसी,

नरवश्यं नरेन्द्राणां वश्यं नारीवशङ्करम ।

अणिमादिगुणैश्वरयं रञ्जनं पापभञ्जनम ।

तत्तदावरणस्थायि देवताबृन्दमन्त्रकं ।

मालामन्त्रं परम गुह्यां परन्धामप्रकीर्तितम ।

शक्तिमालापञ्चधास्याच्छिवमालाचतादृशी,

तस्माद्गोप्यतराद्गोप्यं रहस्यं भुक्तिमुक्तिदम ।

इति श्री वामकेश्वरतन्त्रे उमामहेश्वरसम्वादे देवीखड्गमालास्तोत्ररत्नं समाप्तम ।

N/A

References : N/A
Last Updated : April 11, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP