मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे|
चिदाकारो धाता परमसुखदः पा...

रामचन्द्राष्टकम् - चिदाकारो धाता परमसुखदः पा...

श्री राम हा विष्णुचा सातवा अवतार आहे.
The Ramayana is the world's oldest literature.


चिदाकारो धाता परमसुखदः पावनतनुर्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता ।
सदा सेद्रैव्यः पूर्णो जनकतनयांगैः सुरगुरू रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ १ ॥
मुकुंदो गोविंदो जनकतनयालालितपदः पदं प्राप्ता यस्याधमकुलभवा चापि शबरी ।
गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ २ ॥
धराधीशोऽधीशः सुरनरवराणा रघुपतिः किरीटी केयूरी कनककपिशः शोभितवपुः ।
समासीनः पीठे रविशतनिभः शांतमनसो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ३ ॥
वरेण्यः शारण्यः कपिपतिसखा चांतविधुरो ललाटे काश्मीरो रुचिरगतिभंगः शशिमुखः । न
राकारो रामो यतिपतिनुतः संसृतिहरो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ४ ॥
विरूपाक्षः काश्यामुपदिशति यन्नाम शिवदं सहस्त्रं यन्नाम्नां पठति गिरिजा प्रत्युषसि वै ।
कलौ के गायंतीश्‍वरविधिमुखा यस्य चरितं रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ५ ॥
परो धीरोऽधीरोऽसुरकुलभवश्चासुरहरः परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः ।
अहल्याशापघ्नः शरकर अजः कौशिकसखा रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ६ ॥
ह्रषीकेशः शौरिर्धरणिधरशायी मधुरिपुरुपेन्द्रो वैकुण्ठो गजरिपुहरस्तुष्टमनसः ।
बलिध्वंसो वीरो दशरथसुतो नीतिनिपुणो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ७ ॥
कविः सौमित्रीड्यः कपटमृगघाती वनचरो रणश्लाघी दांतो धरणिभरहर्ता सुरनुतः ।
अमानी मानज्ञो निखिलजनपूज्यो ह्रदिशयो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ८ ॥
इदं रामस्तोत्रं वरममरदासेन रचितमुषःकाले भक्त्या यदि पठति यो भावसहितः ।
मनुष्यः स क्षिप्रं जनिमृतिभयं तापजनकं परित्यज्य श्रेष्ठं रघुपतिपदं याति शिवदम् ॥ ९ ॥
इति श्रीमद्रामदासपूज्यशिष्यश्रीमद्धंसदासशिष्येणामरदासाख्यकविना
विरचितं श्रीमद्रामचंद्राष्टकं संपूर्णम् ।

N/A

References : N/A
Last Updated : July 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP