श्रीसूर्यार्यास्त्रोत्रम्

ऋग्वेदीयनित्यविधि:


॥ श्रीसूर्यार्यास्त्रोत्रम्‍ ॥
शुकतुण्डच्छवि सवितुश्चण्डरुचे: पुण्डरीकवनबन्धो: । मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशाया: ॥१॥
यस्योदयास्तसमये सुरमुकुटनिघृष्टचरणकमलोऽपि । कुरुतेऽञ्जलिं त्रिनेत्र: स जयति धाम्नां निध: सूर्य: ॥२॥
उदयाचलतिलकाय प्रणतोऽस्मि विवस्वते ग्रहेशाय । अम्बरचूडामणये दिग्वनिताकर्णपूराय ॥३॥
जयति जनानन्दकर: करनिकरनिरस्ततिमिरसंघात: । लोकालोकालोक: कमलारुमण्डल: सूर्य: ॥४॥
प्रतिबोधितकमलवन: कृतघटनश्चक्रवाकमिथुनानाम्‍ । दर्शितसमस्तभुवन: परहितनिरतो रवि: सदा अपनयतु सकलकलिकृतमलपटलं सुप्रतप्तकनकाभ: । अरविन्दवृन्दविघटनपटुतरकिरणोत्कर: सविता ॥६॥
उदयाद्रिचारुचामरहरितहयखुरपरिहतरेणुराग । हरितहयरितपरिकर गगनांगनदीपक नमस्ते ॥७॥
उदितवति त्वयि विकसति मुकुलीयति समस्तमस्तमितबिम्बे । न ह्यन्यस्मिन्दिनकर सकलं कमलायते भुवनम्‍ ॥८॥
जयति रविरुद्रयसमये बालातप: कनकसन्निभो यस्य । कुसुमांजलिरिव जलधौ तरंति रथसप्तय: सप्त ॥९॥
आर्या: साम्बपुरे सप्त आकाशत्पातिता भुवि । यस्य कंठे गृहे वापि न स लक्ष्म्या वियुज्यते ॥१०॥
आर्या: सप्त सदा यस्तु सप्त्यम्यां सप्तधा जपेत्‍ । तस्य देहं च गेहं च पद्मा सत्यं न मुञ्चति ॥११॥
निधिरेष दरिद्राणां रोगिणां परमौषधम्‍ । सिद्धि: सकलकार्याणां गाथेयं संस्मृता रवे: ॥१२॥
॥ इति श्रीयाज्ञवल्क्य विरचितं सूर्यार्यास्तोत्रं संपूर्णम्‍ ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP