अथ यज्ञोपवीतसंस्कारविधि:

ऋग्वेदीयनित्यविधि:


॥ अथ यज्ञोपवीतसंस्कारविधि: ॥
श्रीगणेशायनम: ॥ द्विराचम्य प्राणायामं कृत्वा देशकालौ संकीर्त्य श्रौतस्मार्तकर्मानुष्ठानसिद्द्यर्थं यज्ञोपवीतसंस्कारमहं करिष्ये ॥ यज्ञोपवीतं पलाशपर्णे निधाय ॥ गायत्र्या विश्वामित्र: सविता गायत्री यज्ञोपवीतत्रिगुणीकरणे विनियोग: ॥ ॐ भूर्भव:स्व: तत्सवितु० ॥ आपोहिष्ठेति तृचस्य सिंधुद्वीप आपो गायत्री यज्ञोपवीतप्रक्षालने विनियोग: ॥ ॐ आपोहिष्ठा० इति ऋक्‍त्रयम्‍ ॥ गायत्र्या विश्वामित्र: सविता गायत्री यज्ञोपवीत नवगुणीकरणे विनियोग: ॥ ॐ भूर्भव:स्व: तत्सवितु० ॥ ब्रह्मजज्ञानं गौतमो वामदेवो ब्रह्मा त्रिष्टुप्‍ यजोपवीतब्रह्मप्रणामे विनियोग: ॥ ॐ ब्रह्मजज्ञानंप्रथमंपुरस्ताद्विसीमत: सुरुचोवेनआव: । सबुघ्न्याउपमाअस्यविष्ठा: सतश्चयोनिमसंतश्वविव: ॥ इदंविष्णु: काण्वो मेधातिथिर्विष्णुर्गायत्री यज्ञोपवीतविष्णुप्रणामे विनियोग: ॥ ॐ इदंविष्णुर्विचक्रमे० ॥ त्र्यंबकं वसिष्ठो रुद्रोऽनुष्टुप्‍ यजोपवीत ईश्वरप्रणामे विनियोग: ॥ ॐ त्र्यंबकं यजामहे० ॥ ॐ आपोहिष्ठाम० जनयथाचन: ॥ हिरण्यवर्णा:शुचय:पावकायासुजात:कश्यपोयास्विंद्र: ॥ अग्निंयागर्भादधिरेविरुपास्तानआप:श: स्योनाभवंतु ॥ यासाराजावरुणोयातिमध्येसत्यानृतेअवपश्यन्जनानाम्‍ ॥ मधुश्चुत:शुचयोया:पावकास्तानआप: स्योनाभवंतु ॥ यासांदेवादिविकृण्वंतिभक्षंयाऽअंतरिक्षेबहुधाभवंति ॥ या:पृथिवींपयसोंदंतिशुक्रास्तानआप:शस्योनाभवंतु ॥ शिवेनमाचक्षुषापश्यताप: शिवयातनुवोपस्पृशतत्वचमे ॥ सर्वा अग्नी रप्सुषदोहुवेवोमयिवर्चोबलमोजोनिधत्त ॥
ॐ पवमान:- सुवर्जन: ॥ पवित्रेणविचर्षणि: ॥ य:पोतासपुनातुमा ॥ पुनंतुमादेवजना: ॥ पुनंतुमनवोधिया ॥ पुनंतुविश्वाआयव: ॥ जातवेद:पवित्रवत्‍ ॥ पवित्रेणपुनाहिमा ॥ शुक्रेणदेवदीद्यत्‍ ॥ अग्नेक्रत्वाक्रतूरनु ॥ यत्तेपवित्रमर्चिषि ॥ अग्नेविततमंतरा ॥ ब्रह्मतेनपुनीमहे ॥ उभाभ्यांदेवसवित: ॥ पवित्रेणसवेनच ॥ इदंब्रह्मपुनीमहे ॥ वैश्वदेवीपुनतीदेव्यागात्‍ ॥ यस्यैबह्वीस्तनुवोवीतपृष्ठा: ॥ तयामदंत:सधमाद्येषु ॥ वयस्यामपतयोरणीणाम्‍ ॥ वैश्वानरोरश्मिभिर्मापुनातु ॥ वात:प्राणेनेषिरोमयोभू: ॥ द्यावापृथिवीपयसापयोभि: ॥ ऋतावरीयज्ञियेमापुनीताम्‍ ॥ बृहद्भि:सवितस्तृभि: ॥ वर्षिष्ठैर्देवमन्मभि: ॥ अग्नेदक्षै:पुनाहिमा ॥ येनदेवाऽ‍अपुनत ॥ येनापोदिव्यंकश: ॥ तेनदिव्येनब्रह्मणा ॥ इदंब्रह्मपुनीमहे ॥ य:पावमानीरध्येति ॥ ऋषिभि:संभृतरसम्‍ ॥ सर्वसपूतश्नाति ॥ स्वदितंमातरिश्वना ॥ पावमानीर्योऽअध्येतिं ॥ ऋषिभि:संभृतरसम्‍ ॥ तस्मैसरस्वतीदुहे ॥ क्षीरसर्मिर्मधूदकम्‍ ॥ पावमानी:स्वत्ययनी: ॥ सुदुघाहिपयस्वती: ॥ ऋषिभि:संभृतोऽअमृतोरस: ॥ ब्राह्मणेष्वमृतहितम्‍ ॥ पावमानीर्दिशंतुन: ॥ इमंलोकमथोऽअमुम्‍ ॥ कामान्त्समर्धयंतुन: ॥ देवीर्देवै:समाभृता: ॥ पावमानी:स्वस्त्ययनी: ॥ सुदुधाहिघृतश्वतु: ॥ ऋषिभि:संभृतोरस: ॥ ब्राह्मणेष्वमृतहितम्‍ ॥ येनदेवा:पवित्रेण ॥ आत्मानंपुनतेसदा ॥ तेनसहस्त्रधारेण ॥ पावमान्य:पुनंतुमा ॥ प्राजापत्यंवित्रम्‍ ॥ शतोद्यामहिरण्मयम्‍ ॥ तेनब्रह्मविदोवयम्‍ ॥ पूतंब्रह्मपुनीमहे ॥ इंद्र:सुनीतीसहमापुनातु ॥ सोम:स्वस्त्यावरुण:समीच्या यमोराजाप्रमृणाभि:पुनातुमा ॥ जातवेदामोर्जयंत्यापुनातु ॥ ॐ भूरग्निंचपृथिवींचमांच ॥ त्रीश्वलोकान्संवत्सरंच ॥ प्रजापतिस्त्वासादयतु ॥ तयादेवतयांगिरस्वद्धुवासीद ॥ ॐ भुवोवायुंचांतरिक्षंचमांच ॥ त्रीश्चलोकान्० प्रजापति० ॥ तयादेवतयां ॥ ॐ भूर्भव:सुवश्चंद्रमसंचदिशश्चमांच ॥ त्रीश्चलोकान्० प्रजापति० ॥ तयादेवतयां० ॥ ॐ कारं प्रथमतंतौ न्यसामि ॥ अग्निं द्वीतीयतंतौ न्यसामि ॥ नागांस्तृतीयतंतौ० ॥ सोमं चतुर्थतंतौ० ॥ पितृन्पंचमतंतौ० ॥ प्रजापतिं षष्ठतंतौ० ॥ वायुं सप्तमतंतौ० ॥ सूर्यं अष्टमतंतौ० ॥ विश्वान्‍देवान्नावमतंतौ न्यसामि ॥ ऋग्वेदं प्रथमदोरके न्यसामि ॥ यजुर्वेदं द्वितीयदोरके न्यसामि ॥ सामवेदं तृतीयदोरके न्यसामि ॥ अर्थर्ववेदं ग्रन्थौन्यसामि । प्रतियज्ञोपवीतं दशगायत्रीमंत्रं जपेत्‍ । उद्वयंतमसस्परिज्योतिष्पश्यंतउत्तरम्‍ । देवंदेवत्रासूर्यमगन्मज्योतिरुत्तमम्‍ ॥ उद्यन्नद्येति तिसृभि: सूर्याय दर्शयित्वा । देवस्यत्वासवितु:प्रसवेश्विनोर्बाहुभ्यांपूष्णो हस्ताभ्यामग्नेस्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणाभिषिंचामि ॥ तत्सवितुर्वरेण्यंभर्गोदेवस्यधीमहि । धियोयोन:प्रचोदयात्‍ ॥ इति त्रिस्ताडयेत्‍ ॥ यज्ञोपवीतधारणे विनियोग: ॥ ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात्‍ । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेज: । इति मंत्रेण प्रथमं दक्षिणबाहुमुद्धृत्य पश्चात्‍ कण्ठे धारयेत्‍ ॥ आचम्य ॥ समुद्रं गच्छ स्वाहा ॥ इति जीर्णयज्ञोपवीतं जले विसर्जयेत्‍ ॥
॥ इति यज्ञोपवीतसंस्कारविधि: ॥  

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP