श्री बृहस्पतिस्तोत्रम् - गुरुर्बृहस्पतिर्ज्जीवः सु...

मनुष्य आपल्या पूर्व जन्मींच्या कर्मानुसार हा जन्म भोगत असतो, पण या जन्मीच्या सर्व पीडा नवग्रहांच्या पूजा अर्चा करून जीवन सुखमय बनवू शकतो.


गुरुर्बृहस्पतिर्ज्जीवः सुराचार्यो विदां वरः ।
वागीशो धिषणो दीर्घश्मश्रुः पीतांबरो युवा ॥१॥

सुधादृष्टिर्ग्रहाधीशो ग्रहपीडापहारकः ।
दयाकरः सौम्यमूर्तिः सुरार्च्यः कुड्मलद्युतिः ॥२॥

लोकपूज्यो लोकगुरुः नीतिज्ञो नीतिकारकः ।
तारापतिश्चाङ्गिरसो वेदवेद्यः पितामहः ॥३॥

भक्त्या बृहस्पतिं स्मृत्वा नामान्येतानि यः पठेत् ।
अरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः ॥४॥

जीवेत् वर्षशतं मर्त्यः पापं नश्यति नश्यति ।
यः पूजयेत् गुरुदिने पीतगन्धाक्षतांबरैः ॥५॥

पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम् ।
ब्रह्मणान् भोजयित्वा च पीडाशान्तिर्भवेत् गुरोः ॥६॥

N/A

References : N/A
Last Updated : December 31, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP