संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व|
एकोनपञ्चाशत्तमोऽध्यायः

हरिवंश पर्व - एकोनपञ्चाशत्तमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


ब्रह्मलोके भगवतः विष्णोः सत्कारम्

जनमेजय उवाच
ब्रह्मणा देवदेवेन सार्धं सलिलयोनिना ।
ब्रह्मलोकगतो ब्रह्मन् वैकुण्ठः किं चकार ह ॥१॥
किमर्थे चादिदेवेन नीतः कमलयोनिना ।
विष्णुर्दैत्यवधे वृत्ते देवैश्च कृतसत्क्रियः ॥२॥
ब्रह्मलोके च किं स्थानं कं वा योगमुपास्त सः ।
कं वा दधार नियमं स विभुर्भूतभावनः ॥३॥
कथं तस्याऽऽसतस्तत्र विश्वं जगदिदं महत् ।
श्रियमाप्नोति विपुलां सुरासुरनरार्चिताम् ॥४॥
कथं स्वपिति घर्मान्ते बुध्यते चाम्बुदप्लवे ।
कथं च ब्रह्मलोकस्थो धुरं वहति लौकिकीम् ॥५॥
चरितं तस्य विप्रेन्द्र दिव्यं भगवतो दिवि ।
विस्तरेण यथातत्त्वं सर्वमिच्छामि वेदितुम् ॥६॥
वैशम्पायन उवाच
शृणु नारायणस्यादौ विस्तरेण प्रवृत्तयः ।
ब्रह्मलोकं यथारूढो ब्रह्मणा सह मोदते ॥७॥
कामं तस्य गतिः सूक्ष्मा देवैरपि दुरासदा ।
यत् तु वक्ष्याम्यहं राजंस्तन्मे निगदतः शृणु ॥८॥
एष लोकमयो देवो लोकाश्चैतन्मयास्त्रयः ।
एष देवमयश्चैव देवाश्चैतन्मया दिवि ॥९॥
तस्य पारं न पश्यन्ति बहवः पारचिन्तकाः ।
एष पारं परं चैव लोकानां वेद माधवः ॥१०॥
अस्य देवान्धकारस्य मार्गितव्यस्य दैवतैः ।
शृणु वै यत्तदा वृत्तं ब्रह्मलोके पुरातनम् ॥११॥
स गत्वा ब्रह्मणो लोकं दृष्ट्वा पैतामहं पदम् ।
ववन्दे तानृषीन् सर्वान् विष्णुरार्षेण कर्मणा ॥१२॥
सोऽग्निं प्राक्सवने दृष्ट्वा हूयमानं महर्षिभिः ।
अवन्दत महातेजाः कृत्वा पौर्वाह्णिकीं क्रियाम् ॥१३॥
स ददर्श मखेष्वाज्यैरिज्यमानं महर्षिभिः ।
भागं यज्ञियमश्नानं स्वदेहमपरं स्थितम् ॥१४॥
अभिवाद्याभिवाद्यानामृषीणां ब्रह्मवर्चसाम् ।
परिचक्राम सोऽचिन्त्यो ब्रह्मलोकं सनातनम् ॥१५॥
स ददर्शोच्छ्रितान् यूपांश्चषालाग्रविभूषितान् ।
मखेषु च ब्रह्मर्षिभिः शतशः कृतलक्षणान् ॥१६॥
आज्यधूमं समाघ्राय शृण्वन्वेदान्द्विजेरितान् ।
यज्ञैरिज्यन्तमात्मानं पश्यंस्तत्र चचार ह ॥१७॥
ऊचुस्तमृषयो देवाः सदस्याः सदसि स्थिताः ।
अर्घ्योद्यतभुजाः सर्वे पवित्रान्तरपाणयः ॥१८॥
देवेषु वर्तते यद् वै तद्धि सर्वं जनार्दनात् ।
यत्प्रवृत्तं च देवेभ्यस्तद्विद्धि मधुसूदनात् ॥१९॥
अग्नीषोममयं लोकं यं विदुर्विदुषो जनाः ।
तं सोममग्निं लोकं च वेद विष्णुं सनातनम् ॥२०॥
क्षीराद् यथा दधि भवेद्दध्नः सर्पिर्भवेद् यथा ।
मथ्यमानेषु भूतेषु तथा लोको जनार्दनात् ॥२१॥
यथेन्द्रियैश्च भूतैश्च परमात्मा विधीयते ।
तथा देवैश्च वेदैश्च लोकैश्च विहितो हरिः ॥२२॥
यथा भूतेन्द्रियावाप्तिर्विहिता भुवि देहिनाम् ।
तथा प्राणेश्वरावाप्तिर्देवानां दिवि वैष्णवी ॥२३॥
सत्रिणां सत्रफलदः पवित्रं परमात्मवान् ।
लोकतन्त्रधरो ह्येष मन्त्रैमन्त्र इवोच्यते ॥२४॥
ऋषय ऊचुः
स्वागतं ते सुरश्रेष्ठ पद्मनाभ महाद्युते ।
इदं यज्ञियमातिथ्यं मन्त्रतः प्रतिगृह्यताम् ॥२५॥
त्वमस्य यज्ञपूतस्य पात्रं पाद्यस्य पावनः ।
अतिथिस्त्वं हि मन्त्रोक्तः स दृष्टः सततं मतः ॥२६॥
त्वयि योद्धुं गते विष्णौ न प्रावर्तन्त नः क्रियाः ।
अवैष्णवस्य यज्ञस्य न हि कर्म विधीयते ॥२७॥
सदक्षिणस्य यज्ञस्य त्वत्प्रसूतिः फलं लभेत् ।
अद्यात्मानमिहास्माभिरिज्यमानं निरीक्षसे ॥२८॥
एवमस्त्विति तान्सर्वान्भगवान्प्रत्यपूजयत् ।
मुमुदे ब्रह्मलोकस्थो ब्रह्मा लोकपितामहः ॥२९॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि लोकवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥४९॥

N/A

References : N/A
Last Updated : July 12, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP