मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
विरिञ्च्यादिभिः पञ्चभिर्ल...

देवीभुजङ्गस्तोत्रम् - विरिञ्च्यादिभिः पञ्चभिर्ल...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


विरिञ्च्यादिभिः पञ्चभिर्लोकपालैः
समूढे महानन्दपीठे निषण्णम् ।
धनुर्बाणपाशाङ्कुशप्रोतहस्तं
महस्त्रैपुरं शंकराद्वैतमव्यात् ॥१॥
यदन्नादिभिः पञ्चभिः कोशजालैः
शिरः पक्षपुच्छात्मकैरन्तरन्तः ।
निगूढे महायोगपीठे निषण्णं
पुरारेरथान्तःपुरं नौमि नित्यम् ॥२॥
विनोदाय चैतन्यमेकं विभज्य
द्विधा देवि जीवः शिवश्चेति नाम्ना ।
शिवस्यापि जीवत्वमापादयन्ती
पुनर्जीवमेनं शिवं वा करोषि ॥३॥
समाकुञ्च्य मूलं हृदि न्यस्य वायुं
मनो भ्रूबिलं प्रापयित्वा निवृत्ताः ।
ततः सच्चिदानन्दरूपे पदे ते
भवत्यंब जीवाः शिवत्वेन केचित् ॥४॥
शरीरेऽतिकष्टे रिपौ पुत्रवर्गे
सदाभीतिमूले कलत्रे धने वा ।
न कश्चिद्विरज्यत्यहो देवि चित्रं
कथं त्वत् कटाक्षं विना तत्वबोधः ॥५॥
शरीरे धनेऽपत्यवर्गे कलत्रे
विरक्तस्य सद्देशिकादिष्टबुद्धेः ।
यदाकस्मिकं ज्योतिरानन्दरूपं
समाधौ भवेत्तत्त्वमस्यम्ब सत्यम् ॥६॥
मृषान्यो मृषान्यः परो मिश्रमेनं
परः प्राकृतं चापरो बुद्धिमात्रम् ।
प्रपञ्चं मिमीते मुनीनां गणोऽयं
तदेतत्त्वमेवेति न त्वां जहीमः ॥७॥
कीर्तिः प्रतिष्ठा च विद्या च शान्ति-
स्तथा शान्त्यतीतेति पञ्चीकृताभिः ।
कलाभिः परैः पञ्चविंशात्मिकाभि-
स्त्वमेकैव सेव्या शिवाभिन्नरूपा ॥८॥
अगाधेऽत्र संसारपङ्के निमग्नं
कलत्रादिभारेण खिन्नं नितान्तम् ।
महामोहपाशौघबद्धं चिरान्मां
समुद्धर्तुमम्ब त्वमेकैव शक्ता ॥९॥
गणेशैर्ग्रहैरम्ब नक्षत्रपङ्क्त्या
तथा योगिनीराशिपीठैरभिन्नम् ।
महाकालमात्मानमामृश्य लोकं
विधत्से कृतिं वा स्थितिं वा महेशि ॥१०॥
लसत्तारहारामतिस्वच्छचेलां
वहन्तीं करे पुस्तकं चाक्षमालाम् ।
शरच्चन्द्रकोटिप्रभाभासुरां त्वां
सकृद्भावयन् भारतीवल्लभः स्यात् ॥११॥
समुद्यत्सहस्रार्कबिम्बाभवक्त्रां
स्वभासैव सिन्दूरिताजाण्डकोटिम् ।
धनुर्बाणपाशाङ्कुशान् धारयन्तीं
स्मरन्तः स्मरं चापि सम्मोहयेयुः ॥१२॥
मणिस्यूतताटङ्कशोणास्यबिम्बां
तडित्पीतवस्त्रां त्वगुल्लासिभूषाम् ।
सदा भावयन् तप्तहेमप्रभां त्वां
श्रियो नाशयत्यम्ब चाञ्चल्यभावम् ॥१३॥
महामन्त्रराजान्तबीजं पराख्यं
स्वतो न्यस्तबिन्दुं स्वयं न्यस्त हार्दम् ।
भवद्वक्त्रवक्षोजगुह्याभिधानं
स्वरूपं सकृद्भावयेत्सत्वमेव ॥१४॥
तथान्ये विकल्पेषु निर्विण्णचित्ताः
तदेवं समाधाय बिन्दुत्रयं ते ।
परानन्दसंधानसिन्धौ निमग्नाः
पुनर्गर्भरन्ध्रं न पश्यन्ति धीराः ॥१५॥
त्वदुन्मेषलीलानुबन्धाधिकारान्
विरिञ्च्यादिकांस्त्वद्गुणाम्भोधिबिन्दून् ।
भजन्तस्तितीर्षन्ति संसारसिन्धुं
शिवे तावकानां सुसम्भावनेयम् ॥१६॥
कदा वा भवत्पादपोतेन तूर्णं
भवाम्भोधिमुत्तीर्य पूर्णान्तरङ्गः ।
निमज्जन्तमेनं दुराशाविषाब्धौ
समालोक्य लोकं कथं पर्युदास्से ॥१७॥
कदा वा हृषीकाणि साम्यं भजेयुः
कदा वा न शत्रुर्न मित्रं भवानि ।
कदा वा दुराशा विषूची विलोपः
कदा वा मनो मे समूलं विनश्येत् ॥१८॥
नमोवाकमाशास्महे देवि युष्मत्-
पदाम्भोजयुग्माय तिग्माय गौरि ।
विरिञ्च्यादिभास्वत्किरीटप्रतोली-
प्रदीपप्रतानप्रभाभास्वराय ॥१९॥
कचे चन्द्ररेखं कुचे तारहारं
करे स्वादु चापं शरे षट्पदौघम् ।
स्मरामि स्मरारेरभिप्रायमेकं
मदाघूर्णनेत्रं मदीयं निधानम् ॥२०॥
शरेष्वेव नासा धनुष्वेव जिह्वा
जपापाटले लोचने ते स्वरूपे ।
त्वगेषा भवच्चन्द्रखण्डे श्रवो मे
गुणे ते मनोवृतिरम्ब त्वयि स्यात् ॥२१॥
जगत्कर्मधीरान् वचोधूतकीरान्
कुचन्यस्तहारान् कृपासिन्धुपूरान् ।
भवाम्भोदिपारान् महापापदूरान्
भजे वेदसारान् शिवप्रेमदारान् ॥२२॥
सुधासिन्धुसारे चिदानन्दनीरे
समुत्फुल्लनीपे सुरत्नान्तरीपे ।
मणिव्यूहसाले स्थिते हैमशाले
मनोजारिवामे निषण्णं मनो मे ॥२३॥
दृगन्ते विलोला सुगन्धीषुमाला
प्रपञ्चेन्द्रजाला विपत्सिन्धुकूला ।
मुनिस्वान्तशाला नमल्लोकपाला
हृदि प्रेमलोलाऽमृतस्वादुलीला ॥२४॥
जगज्जालमेतत्त्वयैवाम्ब सृष्टं
त्वमेवाददासीन्द्रियैरर्थजालम् ।
त्वमेकैव कर्त्री त्वमेकैव भोक्त्री
न मे पुण्यपापे न मे बन्धमोक्षौ ॥२५॥
इति प्रेमभारेण किञ्चिन्मयोक्तं
न बुद्ध्वैव तत्त्वं मदीयं त्वदीयम् ।
विनोदाय बालस्य मौर्ख्यं हि मातः
तदेतत् प्रलापस्तुतिं मे गृहाण ॥२६॥

N/A

References : N/A
Last Updated : February 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP