शिवराजाभिषेकप्रयोग: - तृतीयेऽहनि

गागाभट्टकृत राजाभिषेकप्रयोग: ।


[ज्येष्ठ शु. ८ सोमवार शके १५९६: १ जून १६७४]
तत: तृतियेऽनि ग्रहयागं ग्रहमखबत्‍ कुर्यात्‍ । ऐद्रीशांत्यंगत्वेन ग्रहयज्ञ करिष्ये इति संकल्प्य । आचार्य: स्वकुंडे अग्रिं प्रतिष्ठाप्य । तत्पूर्वे ऐशाने वा वेदिकायां ग्रहपीठे ग्रहानावाहयेत्‍ । तत्र हिरण्मयान्‍ छन्नोपानत्पादपीठान्‍ प्रत्येकं समर्पयेत्‍ । मंत्रास्तु स्वशाखीया आथर्वणोक्ता: पौराणा: वा तेच ।
यं वहन्ति शोनकर्णा: प्रतिलोमा वाजिन: ।
तमहं सर्वतेजोमयमादित्यामावाहयामि ।
यं वहन्ति हंसवर्णा: अनुलोमा वाजित: ।
तमहं व्दिजैराप्यायमानं सोममावाहयामि ।
यस्य रक्तरुपं रक्तानुलेपनं च य: ।
तमहं रक्तवर्णामं भौममावाहयामि ।
यस्य पीतरुपं पीतानुलेपनं च य: ।
तमहं पीतवर्णामं बुधमावाहयाम्यहम्‍ ।
यश्चैवाडिरस: पुत्रो देवानां च पुरोहित: ।
तमहं हिरण्यवर्णामं बृहस्पतिमावाहयामि ।
यस्य शुकरुपं शुकानुलेपनश्च य: ।
तमहं शुकवर्णामं शुक्रमावाहयामि ।
यस्यायसं रुपमायसौ यस्य प्रकृति: ।
तमहं आदित्यजं नित्यं शनिमावाहयामि ।
यस्य कृष्णं रुपं कृष्णानुलेपनं च य: ।
तमहं कृष्णवर्णामं राहुमावाहयाम्यहम्‍ ।
यस्य दीर्घा शिखा मुखं च परिमंडलं ।
तमहं ब्रह्मण: पुत्रं केतुमावाहयाम्यहम्‍ ।
अथादि देवता: । मा नो विदन्‍ इति रुद्रं । आपो इत्युमां । अग्रिरिव मन्यो त्विषित इति स्कंद: । प्र तव्दिष्णुरिति विष्णुं । ब्रह्म जज्ञानमिती ब्रह्माणं । इन्द्रं मतिर्हृद इति इंद्रं । यमाय सोममिति यमं । असुन्वन्त इति काल: । यदाज्ञामिति चित्रगुप्तं ।
अथ प्रत्यधिदेवता: । समस्त्वाग्र ऋतवो इत्यग्निं । शन्नो देवीरिति आप: । भूमे मातरिते भूमिं । इदं विष्णुरिति नारायणं । इन्द्रं जुषस्व इति इन्द्रं । एकं पादौ इति इन्द्राणीं । नक्तंजाता इति प्रजापतिं । शेरभक इति सर्पान्‍ । ये दिशामन्तरित इति ब्रह्माणं ।
अत्राधिदेवता वामभागे प्रत्यधिदेवता दक्षिणभागे बोध्या: । ततो ग्रहपीठ पूर्वादिदिक्षु उदक्‍ संस्थतया कृत्तिकदिसप्तसप्तनक्षत्राण्याबाहयेत्‍ । तेषां मंत्रा: अग्निर्न: पातु कृत्तिका इत्यादय: आपस्तम्बशाखायां प्रसिध्दा: । नमो तमा मंत्रा पौराणिका वा तेच आवाहयिष्यामि शुभां कृत्तिकां इत्यादय आपस्तम्बशाखायां प्रसिध्दा: । नमो तमा मंत्रा पौराणिका वा । तेच
आवाहयिष्यामि [शुभां] कृत्तिकां देवपूजिताम्‍ ।
एहि साधारणे देवि ज्येष्ठे दक्षसुते शुभे ॥१८६॥
आवाहयामि वरदां रोहिणीं चंद्रवल्लभाम्‍ ।
एहि रोहिणि धर्मज्ञे ध्रुवकर्मसुशोभने ॥१८७॥
अवाहयामि धर्मज्ञामंधकां शशिवल्लभाम्‍ ।
एहि मे अंधके देवि मृदुकर्मसुशोभने ॥१८८
आर्द्रामावाहयिष्यामि नक्षत्रं चारुसंज्ञकम्‍ ।
एह्यार्द्रे चारुसर्वागि दारुणे रुद्रसंमिते ॥१८९॥
ऋक्षमावाहयिष्यामि धर्मज्ञं तु पुनर्वसुं ।
पुनर्वसोरिहागच्छ चरकर्मप्रसाधक ॥१९०॥
पुष्यमावाहयिष्यामि नक्षत्रं क्षिप्रसंज्ञकम्‍ ।
एहि पुष्य महाभाग पोषं वर्धय सर्वत: ॥१९१॥
आवाहयिष्याम्याश्लेषां भक्तांना श्रीविवर्धिनीम्‍ ।
आश्लेषे त्वमिहाभ्येहि दारुणे विजयप्रदे ॥१९२॥
मघामावाहयिष्यामि उग्रनक्षत्रमंजसा ।
एहि मे सुभगे देवि सर्वार्थाविनिषूदने ॥१९३॥
ऋक्षमावाहयिष्यामि पूर्वाफल्गुनिसंज्ञिके ।
एहि मे सुभगे देवि उग्रकर्मप्रसाधके ॥१९४॥
ऋक्षमावाहयिष्यामि उत्तराफल्गुनिं शुभाम्‍ ।
एहि त्वं सुभगे देवि ध्रुवे सर्वागसुंदरि ॥१९५॥
हस्तमावाहयिष्यामि सावित्रं क्षिप्रमंजसा ।
एहि सावित्र धर्मज्ञं भक्तानां पापनाशन ॥१९६॥
चित्रामावाहयिष्यामि चित्ररुपां मनोहराम्‍ ।
एहि मे वरदे चित्रे मृदुकर्मप्रसाधिके ॥१९७॥
स्वातिमावाहयिष्यामि नित्यमुत्तरमार्गगाम्‍ ।
दवि स्वाति त्वमभ्येहि चरकर्मसुशोभन ॥१९८॥
ऋक्षमावाहयिष्यामि विशाखामुग्रतेजसाम्‍ ।
विशाखे त्वमिहाभ्येहि देवि साधारणे शुभे ॥१९९॥
ऋक्षमावाहयिष्यामि ह्यनुराधां वरप्रदाम्‍ ।
अनुराधे त्वमम्येहि मृदुकर्मसुशोभने ॥२००॥
जेष्ठामावाहयिष्यामि नक्षत्रं शक्रदैवतम्‍ ।
ज्येष्ठे देवि त्वमभ्येहि दारुणे चारुलोचने ॥२०१॥
मूलमावाहयिष्यामि नक्षत्रं दारुणं महत्‍ ।
एहि मूल महाभाग भक्तानामभयप्रद ॥२०२॥
ऋक्षमावाहयिष्यामि पूर्वाषाढेति संज्ञके ।
एहि त्वमुग्रे वरदे आषाढे पूर्वपूर्वके ॥२०३॥
ऋक्षमावाहयिष्यामि उत्तराषाढसंज्ञके ।
उत्तरे त्वं समभ्येहि आषाढे ध्रुवसाधके ॥२०४॥
ऋक्षमावायिष्यामि यत्तदभिजिदुच्यते ।
एहि धिष्ण्यवरिष्ठाद्य क्षिप्रकर्मप्रसाधक ॥२०५॥
ऋक्षमावहयिष्यामि श्रवणं सर्वकामदम्‍ ।
श्रवणत्वमिहाभ्येहि चरकर्मप्रसाधक ॥२०६॥
धनिष्ठामावाहयिष्यामि नक्षत्रं शशिवल्लभम्‍ ।
धनिष्ठे त्वमिहाभ्येहि चरकर्मप्रसाधके ॥२०७॥
ऋक्षमावाहयिष्यामि नाम्नां शतभिषां शुभाम्‍ ।
आगच्छ त्वं शतभिषे चरकर्मसुशोभने ॥२०८॥
ऋक्षमावाहयिष्यामि पूर्वाभाद्रपदां महत्‍ ।
एहि भद्रे पदे पूर्वे उग्रकर्मप्रसाधके ॥२०९॥
ध्रुवमावाहयिष्यामि देशे भाद्रपदोत्तरे ।
एहि त्वं सुमहाभागे मम भाद्रपदोत्तरे ॥२१०॥
ऋक्षमावाहयिष्यामि रेवतीं चारुदर्शनाम्‍ ।
एहि रेवति धर्मज्ञे मृदुकर्मसुशोभने ॥२११॥
ऋक्षमावाहयिष्यामि क्षिप्रमश्विनि संज्ञिकाम्‍ ।
एह्यश्विनि महाभागे वरदे कामदायिनि ॥२१२॥
ऋक्षमावाहयिष्यामि चोप्रं भरणिसंज्ञकम्‍ ।
एहि स्वं देवि भरणि सुभगे चारुदर्शने ॥२१३॥
तत: पीठाद्दिक्षुविदिक्षुलोकपालानावाह्य उत्तरे गणेशं दुर्गा वायुं अश्विनि क्षेत्रपालान्‍ वास्तोष्पतिं चावाह्य प्रतिष्ठाप्य पूजयेत्‍ । तत्र वस्त्रगंधपुष्पाणि पूज्य समानवर्णानि तत्र ग्रहादिवर्णेषु मामका श्लोका: ।
रक्तं : सितो लोहितश्च पीतौ श्वेतश्च मेचक: ।
कृष्णो धूम्रो ग्रहा: ज्ञेयास्तब्दर्णाश्चांगदेवता: ॥२१४॥
[शालिनी]
रोरेपुष्ठ: फाल्गुना व्दे तु हस्तो
मैत्रेन्द्राग्रि वासवेन्द्रे च पीता ।
सौम्यं रौद्रं वारुणं वादिशेयम्‍
सार्प पित्र्यं ब्राह्म वायव्यके च ॥२१५॥
श्वेत ज्ञेयं प्रोष्ठ पादव्दयं च
चित्रत्वाष्टुं वैश्वदेवाश्विने ये ।
मूलश्रुत्यौ नीलये कृत्तिकांक्षे
रक्तं याम्यं कृष्णमेवं च वर्ण: ॥२१६॥
पाद्यं अर्ध्य आचमनीयं स्नानपानीयं समर्पणे मंत्रविशेषो गारुडे ।
इमा आप: शिवा: शिवतमा: पूता: पूततमा: मेध्या मेधतमा: ।अमृता अमृतरसा: पाद्या स्ता जुषस्व प्रतिगृहातु भगवान्‍ ।
इति पाद्यं पाद्या इत्यस्यस्थनि अर्ध्या आचमनीया: स्नानीया: इति पठितो धूपदीपांतपूर्वोक्तनैवेद्यान्‍ समर्प्य । पुष्पांजलिं अंतां पूजां कुर्यात्‍  । तनो अन्वाधानादिचरुं श्रवणपूर्वकं आज्यभागांते यजमानेन संकल्पितानां द्रव्याणां ऋत्विग्भि: सहित आचार्य: वक्ष्यमाण संख्यया आवाहनमंत्रैर्बक्षमाणमंत्रैर्वा होम कुर्यात्‍ । तत्र ग्रहाणां अर्कादि समिद्भि: मधुर त्रयोक्ताभि: होम: दूर्वाहोमे त्रिभि: दूर्वभिरेकाहुति: कुशहोमे त्रिपत्रेण कुशेन अष्टशताष्टविंशति अन्यतरसंख्यया । एवं चरोग्रासमंत्रस्य पाण्याहुति उक्तसंख्यया । एवमाज्यस्य । एवं घृतोक्तानां यवमिश्रिततिलानां च अधिदेवताप्रत्यधिदेवतानां अष्टाष्टसंख्यया उक्तद्रव्यै:  । मंत्रास्तु ग्रहाणामाथर्वणे विषसहिमिति सूर्यस्य । वयं सोमेति सोमस्य । त्वया मन्यो सरथमिति भौमस्य । यद्राजानो इति बुधस्य । स बुध्न्यादिति गुरो: । सहस्र बाहुरिति शुक्रस्य । शन्नो देवीति शनै: । सहस्रबाहु वृषभो यस्य मुद्रा उदागमत्‍ । तेना निजश्येनावयं विशत्रूं स्थापयामसि ।पूर्वोक्तै: मंत्रैरधिदेवतानां होमं कृत्वा नक्षत्राणां होमं कुर्यात्‍ । तत्र मंत्रा: ।
अग्रिर्देव वो यज्वन : कृष्णब्रह्मा वैश्वानरा जातवदा रसाग्रशुक्र: ।
स नक्षत्राणां प्रथमेन पावक: कृत्तिकाभिर्ज्वलनोऽनुशाम्यतां स्वाहा । कृत्तिकाभ्य इदम्‍ ॥
प्रजा प्रजापतिर्य: ससृजे प्रजा इमा देवान्‍ स सृष्टा विनियोज्य कर्मसु ।  स सर्वशुक्र सर्वयोगेषु रोहिणी: शिवा: क्रिया: कृणुतां कर्मासिध्दये स्वाहा । रोहिण्या इदं ॥
विद्याविदो ये मृगशिरशिव: क्रिया: श्रेष्ठराज: कृणुतां सर्वसिध्दये स्वाहा । मृगशिरस इदं ॥
देवं भवं पशुपतिं हरं कृशं महावेव सर्वमुग्रं शिखिंडिनं । सहस्राक्षमसिनं ये गृहंति स नो रुद्र: परिपातु चार्द्रया स्वाहा । आर्द्राया इदं॥
या विप्रै:  कविभिनर्मस्यते दाक्षायणी देवपुरादिभिर्नृभि: । सा न : सुता प्रथम चाज्या पुनर्वसु: शिवा: क्रिया: कृणुतां कर्मसिध्दये स्वाहा।
पुनर्वसच इदं ॥
यस्य देवा ब्रह्मचर्येण कर्मणा महासुरं तग्मतयाऽभिचक्रिरे । तं स बुधं देवगुरुं बृहस्पतिमर्चामि पुष्येण सहाभियातु मां  स्वाहा ।
पुष्याया इदं ॥
या न: स्तुता परिहिणोति । मेधया या तप्यमानमृषिभि:  कामशोचिभि: । जरत्कारसुनो ऋषिभिर्मनीषिभिस्ता आश्लेषा अभिरक्षन्तु नोरगै: स्वाहा । आश्लेषाभ्य इदं ॥
ये देवत्वं पुण्यतोऽभिचक्रिरे ये चापरे ये च परे मनीषिण: । अर्चामि सूनुर्यमराजगान्‍ पितृन्‍ शिवा: क्रिया: कृणुता च नो मधा स्वाहा ।
मधाभ्य इदं ॥
यो योजयन्‍ कर्मणा चर्षणीधृतो भूमिं चेति भग: प्रसाधयत्‍ । तद्देवात्ये शिवतमामलंकृते फल्गुन्योरीडे भजतं च पूर्वयो: स्वाहा । पूर्वाफल्गुनीभ्यामिदं ॥
स्तुतं पूर्वेरर्यमणं  मनीषिभि: स्तौमि देवं जगति वाचमैरयत्‍ । तद्देवत्ये शिवतमामलंकृते फल्गुन्यौ न उत्तरे दैवत्यायै स्वाहा ॥
उत्तराफल्गुनीभ्यामिदं ॥
[ श्यावैर्युक्त: क्षितिपाध्दिरण्मयो यस्य रथ: पथिभिर्वर्तते सुखे । स नौ हस्तेन सवित्त हिरण्मया रिण: सवितानिभि: रक्षतु स्वाहा ।
हस्तायै इदं ॥
त्वष्ट्रे नम: क्षितिसृजं मनीषिणे भूतगोप्त्रे परमं कर्मकारिणे । सा न: स्तुता कृणुतां कर्मासिध्दये चित्रां देवीं सहयोगेन ऋभूत्‍ ।
चित्रायै इदं ॥]
य: प्राणिनां जीवनं वा निषेवते शिवो भूत्वा मातरिश्वा रसाग्रशुक्र: । ध्वजोऽन्तरीक्षस्य स सर्वभृव्दादयुदेव: स्वातिना नोऽभिरक्षन्तु स्वाहा । स्वात्यै इदं ॥
या व्रीडिहा वात्मविद्रिर्मनीषिभि: सहितो यो त्रीणि सवनानि सामगै: । इंद्राग्री वरदौ च नमस्कृतौ विशाखयो: कुर्वतामायुषे श्री : स्वाहा।
विशाखाभ्यां इदं ॥
विश्वेदेवा यमृषिमाहुर्मित्रं भरव्दाजमृषित: प्रसामवित्‍ । तं जगत्या गाथया स्तौम्युग्रे: समानौराधाभिर्भूत कृष्णवोभिरक्षतु स्वाहा । अनुराधाभ्यां इदं ॥
हातक्रतुर्यो निजघान शंवरं वृत्रं च हत्वा सहित: प्रसर्ज्जन: । संस्तुत: प्रीतमना: पुरंदरो मरुत्सखो ज्येष्ठया नोऽभिरक्षतु स्वाहा । ज्येष्ठायै इदं ॥
या धारयत्योजसातिदेवं पवमानापृथिवीञ्च सा सर्वभूतिभूत्‍ सा न: स्तुता कृणुयात्‍ कर्मसिध्दये मूलादेवी निऋति: सर्वकर्मसु स्वाहा । मूलायै इदं ॥
पर्जन्यसृष्टास्तिसृणीभिरावृत्तं यास्तर्यन्त्यभिप्रवृध्दये । ता: स्तौम्यथो वारुणी: पूर्वाषाढा स्वधयाऽस्तु योजने स्वाहा । पूर्वाषाढाभ्य इदं॥
यस्विंशतं त्रिशतान्त्रिश्च मदन्ति देवा देवानां या निर्मिताश्च भूयस: । तानाषाढा उत्तरा: शवसे विश्वा: क्रिया: कृणुतां सुरमता: स्वाहा ।
उत्तराषाढाभ्य इदं ॥
य: सर्वज्ञ: सर्वकृत्‍ सर्वभूतभृत्‍ यस्मादन्यं न परं किं च नास्ति । [निर्मिता:] सत्यजित: पुरुष्टुत: स नो ब्रह्माऽभिजिता नोऽभिरक्षन्तु स्वाहा । अभिजित इदं ॥
स्थानाच ते स्थानमिन्द्राय यान्‍ देवैश्च य ईरयस्चिर्विचक्रमे । तं स्वर्ग नाकपृष्ठं स्वर्धिव्दिष्णुर्देव: श्रवणेनाभिरक्षतु स्वाहा । श्रवणाय इदं ॥
अष्ठौ शतानि श्वेतकेतूनां यानित्वं च सत्वानि जघान भूयस: । आनोदेशे नो भयश्च पीडिता: शाविष्ठाभिर्नोऽभिरक्षंतु वाजिन: स्वाहा । धनिष्ठायां इदं ॥
वाजा देवी देवभृणानि काकुभावुभावाजस्य न तत्कर्मणा शिवा । तव व्राज्यं स्तोमसि देवभोजनौ प्रत्यक्‍ भिषक्‍ तदभिषक्‍ शिवौ न : स्वाहा । शततारकाभ्यादं इदं ॥
सुनाशीरौ न प्रमोतजिह्यसौ तौ पितृभ्यो ददातु स्तनौ शिवौ तौ पूर्वजौ । कृणुतामेकपादजौ प्रतिष्ठानौ सर्वकर्माभयाय च स्वाहा । पूर्वाप्रोष्ठपदाभ्यामिदं ॥
सर्वार्थाय कृणोमि सर्वकर्मसिध्दये गरिष्ठायाऽनेककारिणे नम: । सोऽहिर्बुध्न्य: कृणुतामुत्तरौ शिवौ प्रतिष्ठानौ सर्वकामाभयाय च स्वाहा । उत्तरप्रोष्ठपदाभ्य इदं ।
यमं हाहेहमृषित: प्रसामविद्भाजश्चंद्रमसो दिवाकरं । सजुष्ठ नामाश्चयुजौ भयाय स न: पूवा कृणुतां रेवती: शिवा: स्वाहा । रेवतिभ्य इदं॥
जीर्णा स तं यौ युवानं हि चक्रतुं : ऋषिधिया च्यसनं सोमपाकृतौ । तौ नश्चितिभिर्माश्विनी भिषजामस्य तत्करौउ प्रजामश्विनौ शिवौ स्वाहा । अश्विनीभ्यामिदं ॥
यस्य श्यामशवलौ रक्षक: स्वधां तत्कृव्दिविधाचर्षणीधृतौ । तौ सावित्रीश्च सवितुर्धर्मचारिभिर्यामो राजा भरणीभिर्नोऽभिरक्षतु स्वाहा । भरणीभ्य इदं ॥
तत: दिक्पालेभ्यो वास्तोष्पत्यंतिभ्य उक्तमंत्रैरिमनि द्रव्याणि अष्टाष्टासंख्याभिर्हुत्वा । सर्वान्‍ देवान्‍ तैस्तै: मंत्रै: उपस्थाय प्रीत: सन्‍ । पुष्टिकर्ता भवत्विति प्रार्थयेत्‍ । ततो वक्ष्यमाणेन शांतिगणेन कृत्वा प्रतिहरणेन चातनगणेन मातृनामगणेन वास्तोष्पतिगणेन अभयगणेन च आज्यं जुहुयात्‍ । उपयज्ञे महि० । स्विष्टकृतादिहोम बलिदानं पूर्णाहुतिं च समाप्य । धेनुशंखादिदक्षिणां ग्रहप्रीतये घृतादिदक्षिणां नक्षत्रप्रीतये दद्यात्‍ । ततो ब्राह्मणभोज्यं संकल्पयेत्‍ । इति ग्रहयज्ञ: ॥

N/A

References : N/A
Last Updated : January 14, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP