संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
गुरुपङ्क्तिपूजा

ललितार्चन चंद्रिका - गुरुपङ्क्तिपूजा

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


४ गुरुपङ्क्तिभ्यो नमः
४ गुरुपादुकाभ्यो नमः
४ परमगुरुभ्यो नमः
४ परमगुरुपादुकाभ्यो नमः
४ परमेष्ठिगुरुभ्यो नमः
४ परमेष्ठिगुरुपादुकाभ्यो नमः
नमःआचार्यपादुकाभ्यो नमः
इति संपूज्य आवरणपूजां कुर्यात् ।
======================
प्रथमावरणम्
आवरणपूजा :-
चतुरश्रस्य प्रथमरेखायां
४ अणिमादिदशदेवीश्रीपादुकां पूजयामि
मध्यरेखायां
४ ब्राह्मयाद्यष्टदेवीश्रीपादुकां पूजयामि
अन्तर्रेखायां
४ सर्वसंक्षोभिण्यादिमुद्राश्रीपादुकां पूजयामि
चक्राग्रे
४ त्रिपुराचक्रनायिकाश्रीपादुकां पूजयामि
ततः अत्र त्रैलोक्यमोहनचक्रे त्रिपुराचक्रनायिकाधिष्ठिते एताः अणिमाद्याः प्रकठयोगिन्यः समुद्राः ससिद्ध्य, सायुधाः सशक्तयः, सवाहनाः, सपरिवाराः सर्वोपचारेः, संपूजिताः सन्तु इति सामान्यर्ध्यबिन्दुं क्षिपेत् ।
=====================
द्वितीयावरणम्
शोडशदले :-
४ कामाकर्षिण्यादिषोडशनित्याकलाश्रीपादुकां पूजयामि
४ त्रिपुरेश्वरी चक्रनायिका श्रीपादुकां पूजयामि
अत्र सर्वाशापरिपुरके चक्रे त्रिपुरेशीचक्रनायिकाधिष्ठते एताः, कामाकर्षिण्याद्याः, गुप्तयोगिन्यः, समुद्राः, ससिद्धयः, सायुधाः, सशक्तयः, सवाहनाः, सपरिवाराः, सर्वोपचारैः, सम्पूजिताः सन्तु इति बिन्दुं क्षिपेत् ।
==================
तृतीयावरणम्
अष्टदळे :-
४ अनङ्गकुसुमादि देवी श्रीपादुकां पूजयामि नमः
चक्रागे
४ त्रिपुरसुन्दरी चक्रनायिका श्रीपादुकां पूजयामि नमः
अत्र सर्वसंक्षोभणचक्रे त्रिपुरसुन्दरीनायिकाधिष्ठिते एताः अनङ्गकुसुमादयः गुप्ततरयोगिन्यः समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तु इति सामान्यार्ध्यबिन्दुं क्षिपेत् ।
=======================
चतुर्थावरणम्
चतुर्दशारचक्रे :-
४ सर्वसंक्षोभिण्यादि चतुर्दश देवी श्रीपादुकां पूजयामि
चक्रागे
४ त्रिपुरवासिनी चक्रनायिका श्रीपादुकां पूजयामि
अत्र सर्वसौभाग्यदायकचक्रे त्रिपुरवासिनी चक्रनायिकाधिष्ठिते एतः सर्वसंक्षोभिण्याद्याः सम्प्रदाययोगिन्यः समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तु इति सामान्यार्ध्यबिन्दुं क्षिपेत् ।
=====================
पञ्चमावरणम्
बर्हिदशार चक्रे
४ सर्वसिद्धिप्रदादिदशदेवी श्रीपादुकां पूजयामि ।
चक्रागे
४ त्रिपुरा श्रीचक्रनायिका श्रीपादुकां पूजयामि ।
अत्र सर्वार्थसाधकचक्रे त्रिपुरा श्रीचक्रनायिकाधिष्ठिते एता सर्वसिद्धिप्रदाद्याः दशदेव्याः कुलोत्तीर्णः योगिन्यः समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तु । इति सामन्यार्ध्य बिन्दुं क्षिपेत ।
==================
षष्ठावरणम्
अन्तर्दशारचक्रे :-
४ सर्वज्ञादिदशदेवी श्रीपादुकां पूजयामि नमः ।
चक्राग्रे
४ त्रिपुरमालिनीचक्रनायिका श्रीपादुकां पूजयामि नमः ।
अत्रसर्वरक्षाकर चक्रे त्रिपुरमालिनीचक्रनायिकाधिष्ठते एताः सर्वज्ञादयः निगर्भयोगिन्यः समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तु । इति सामान्यार्घ्य बिन्दुं क्षिपेत् ।
=========================
सप्तमावरणम्
अष्टारचक्रे
४ वशिन्याद्यष्टदेवी श्रीपादुकां पूजयामि
चकाग्रे
४ त्रिपुरासिद्धचक्रनायिकाश्रीपादुकां पूजयामि
अत्र सर्वरोगहरचक्रे त्रिपुरासिद्धाचक्रनायिकाधिष्ठिते एताः वशिन्याद्याः रहस्ययोगिन्यः समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तु । इति सामान्यार्घ्यबिन्दुं क्षिपेत् ।
============================
अष्टमावरणम्
ततोन्तरालत्र्यस्रे पूर्ववत् पडङ्गानि संपूज्य
अग्रकोणे
४ महाकामेश्वरीश्रीपादुकां पूजयामि
दक्षिणकोणे
४ महावज्रेश्वरीश्रीपादुकां पूजयामि
वामकोणे
४ महाभगमालिनीनित्याश्रीपादुकां पूजयामि
चक्राग्रे
४ त्रिपूरांबा चक्रनायिकाश्रीपादुकां पूजयामि
अत्र सर्वसिद्धिप्रदचके त्रिपुरराम्बिकाचक्रनायिकाधिष्ठिते एताः कामेश्वर्याद्याः अतिरहस्ययोगिन्यः समुद्राः ससिद्धयः सयुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तु । इति सामान्यार्घ्यबिन्दुं क्षिपेत् ।

बिन्दौ
श्रीलळिताम्बिका श्रीपादुकां पूजयामि इति त्रिवारं अर्चयेत् ।
देव्याः वामभागे :-
४ योनिमुद्रा श्रीपादुकां पूजयामि
चक्राग्रे :-
४ त्रिपुरभैरवीचक्रनायिकाश्रीपादुकां पूजयामि
अत्र सर्वानन्दमये परब्रह्मस्वरूपिणि बैन्दवे चक्रे त्रिपुरभैरवी चक्रनायिकाधिष्ठिते एषा परापररहस्ययोगिनी श्रीलळीताम्बिका सभुद्रा ससिद्धिः सायुधा सशक्तिः सवाहना सपरिवारा सर्वोपचारैः संपूजिता अस्तु इति बिन्दुं प्रक्षिप्य
४ श्रीलळिताम्बिकायै नमः धूपं कल्पयामि नमः इति धूपं
४ श्रीलळिताम्बिकायै नमः दीपं कल्पयामि नमः इति दीपं चं कल्पयित्वा
४ ऐं - इति योनिमुद्रां प्रदर्श्य नैवेद्यं पुरतः स्थापयित्वा मूलमन्त्रेण प्रोक्ष्य
४ वं इति धेनुमुद्रया अमृतीकृत्य मूलमन्त्रेण नैवेद्यं त्रिवारं अभिमन्त्र्य
४ श्रीलळिताम्बिकायै नमः नैवेद्यं कल्पयामि नमः इति निवेद्य

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP