संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
विशेषार्ध्यविसर्जनम्

ललितार्चन चंद्रिका - विशेषार्ध्यविसर्जनम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


विशेषार्ध्यपात्रं मूलेन आमस्तकमुद्धृत्य तत् क्षीरं पात्रान्तरेणादाय - आर्द्रं ज्वलति ज्योतिरहमस्मि । ज्योतिर्ज्वलति ब्रह्माहमस्मि ।
योsहमस्मि ब्रह्माहमस्मि । अहमस्मि ब्रह्माहमस्मि । अहमेवाहं मां जुहोमिस्वाहा ॥ इति मन्त्रेण आत्मनः कुण्डलिन्यग्नौ हुत्बा शेषं प्रियशिष्याय दत्वा तत्पात्रमन्यानि च हबिश्शेषप्रतिपत्तिपात्राणि प्रक्षाळ्य अग्नौ प्रताप्य अवस्थापयेत् ॥
अथ यथाशक्ति ब्राह्मणान् सुवासिनीश्च भोजयित्वा, स्वयमपि भुञ्जीत ॥ इति नित्यक्रमविधिः ॥
अयं च नित्यक्रमः सूतकेsपि कर्तव्यः । अत्र वचनानि श्यामाक्रमे लिखितानि । तत्र च सकामैर्मनसा, निष्कामैर्यथोक्तमिति विशेषः । बालवृद्धस्त्रीमूढैः यथाप्रज्ञं कृता सपर्या दोर्बाधीच्युच्यते
स्वयं संपाद्य सर्वाणि श्रद्धया साधनानि यः ।
पूजयेत् तत्परो देवीं स लभेताखिलं फलम् ॥
पूजनेन फलार्धं स्यादन्यदत्तैस्तु साधनैः ।
यथाकथांचिद्दैव्यर्चा विधेया श्रद्धयाsन्वितैः ॥

पक्षान्तराणि च -
अशक्तः कारयेत् पूजां दद्याद्वाsर्चनसाधनम् ।
दानाशक्तः सपर्याsन्तं पश्येत्तत्परमानसः ॥
इति कल्पसूत्रप्रकारः परदेवतायाः नित्यक्रमविधिः समाप्तः ।
एवं विस्तरशः पूजः कर्तुमशक्तानां लघुपूजा विधीयते ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP