संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
अन्तर्यागः

ललितार्चन चंद्रिका - अन्तर्यागः

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


मूलाधारादाब्रह्मविलं विलसन्तीं बिसतन्तुतनीयसीं विद्युत्पुञ्जपिञ्जरां विवस्वदयुतभास्वत्प्रकाशां परचितिं भावयेत् । अथ हृदि श्रीचक्रं विभाव्य तत्र तामेव स्वीकृतप्रागुक्तरूपां श्रीदेवीं ध्यात्वा गन्धादिताम्बूलान्तं षडुपचारमन्त्रैरुपचर्य तां पुनः तेजोरूपेण परिणतां परमशिवज्योतिरभिन्नप्रकाशात्मिकां वियदादिविश्वकारणां सर्वावभासिकां स्बात्माभिन्नां परचितिं सुषुम्नापथेनोद्गमय्य विनिर्भिन्नविधिबिलविलसदमलदशशतदल कमलाद्वहन्नासापुटेन निर्गतां त्रिखण्डामुद्रामुद्रितशिखण्डे कुसुमगर्भिते अञ्जलौ समानीय
ओं ऐं ह्रीं श्रीं ह्रीं श्रीं सौः श्रीलळिताया अमृतचैतन्यमूर्ति कल्पयामि नमः
इति मन्त्रमुच्चरन् निजलीलाङ्गीकृतलळितवपुषं विचिन्त्य
४ ह्स्त्रैं ह्स्क्ल्रीं ह्स्त्रौः ।
महापद्मवनान्तस्थे कारणानन्दविग्रहे ।
सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥
इति मन्त्रेण बिन्दुपीठगतनिर्विशेषब्रह्मात्मकश्रीमत्कामेश्वराङ्के परदेवतामावहयेत् । ततः नित्यादिकमणिमान्तं श्रीकमेश्वराङ्कोपवेशनं विना श्रीदेवीसमानाकृतिवेषभूषणायुधशक्तिचक्रं ओघत्रयगुरुमण्डलञ्च वक्ष्यमाणेषु आवरणेषु निजस्वामिन्यभिमुखोपविश्टमवम्रुश्य
४ मूलम् आवाहिता भव
४ मूलं संस्थापिता भव
४ मूलं संनिहिता भव
४ मूलं सन्निरुद्धा भव
४ मूलं संमुखीकृता भव
४ मूलं अवगुंठिता भव
४ मूलं वन्दिता भव
ततः धेनुयोनिमुद्राः प्रदर्शयेत्
अथ श्रीपरदेवतायाः चतुष्पष्ट्युपचारानाचरेत् । तेष्वशक्ताः भावनया पुष्पाक्षतान् अर्पयेत् ।
चतुःषष्ट्युपचारार्चनम्
४ पाद्यं कल्पयामि नमः
४ आभरणावरोपणं कल्पयामि नमः
४ सुगन्धितैलाभ्यङ्गं कल्पयामि नमः
४ मज्जनशालाप्रवेशनं कल्पयामि नमः
४ मज्जनशालामणिपीठोपवेशनं कल्पयामि नमः
४ दिव्यस्नानीयोद्वर्तनं कल्पयामि नमः
४ उष्णोदकस्नानं कल्पयामि नमः
४ कनककलशच्युतसकलतीर्थाभिषेकं कल्पयामि नमः
४ धौतवस्त्रपरिमार्जनं कल्पयामि नमः
४ अरुणदुकूलपरिधानं कल्पयामि नमः
४ अरुणकुचोत्तरीयं कल्पयामि नमः
४ आलेपमण्डपमपप्रवेशनं कल्पयामि नमः
४ आलेपमण्डपमणिपीठोपवेशनं कल्पयामि नमः
४ चंदनागरू कुंकुम संकु मृगमद कर्पूर कस्तूरी गोरोचनादि दिव्य गन्ध सर्वाङ्गीणविलेपनं कल्पयामि नमः
४ केशभरस्य कालागरुधूपं कल्पयामि नमः
४ मल्लिकामालती जातिचम्बकाशाकशतपत्रपूगकुहळी पुन्नागकल्हारमुख्यसर्वर्तु कुसुममालाः कल्पयामि नमः
४ भूषणमण्डपप्रवेशनं कल्पयामि नमः
४ भूषणमण्डपमणिपीठोपवेशनं कल्पयामि नमः
४ नवमणिमुकुटं कल्पयामि नमः
४ चन्द्रशकलं कल्पयामि नमः
४ सीमन्तसिन्दूरं कल्पयामि नमः
४ तिलकरत्नं कल्पयामि नमः
४ कालाञ्जनं कल्पयामि नमः
४ पालीयुगलं कल्पयामि नमः
४ मणिकुण्डलयुगलं कल्पयामि नमः
४ नासाभरणं कल्पयामि नमः
४ अधरयावकं कल्पयामि नमः
४ प्रथमभूषणं कल्पयामि नमः
४ कनकचिन्ताकं कल्पयामि नमः
४ पदकं कल्पयामि नमः
४ महापदकं कल्पयामि नमः
४ मुक्तावलिं कल्पयामि नमः
४ एकावलिं कल्पयामि नमः
४ छन्नवीरं कल्पयामि नमः
४ केयूरयुगलचतुष्टयं कल्पयामि नमः
४ वलयावलिं कल्पयामि नमः
४ ऊर्मिकावलिं कल्पयामि नमः
४ काञ्चीदाम कल्पयामि नमः
४ कटिसूत्रं सौभाग्याभरणं कल्पयामि नमः
४ पादकटकं कल्पयामि नमः
४ रत्ननूपुरं कल्पयामि नमः
४ पादाङ्गुलीयकं कल्पयामि नमः
४ एककरे पाशं कल्पयामि नमः
४ अन्यकरे अङ्कुशं कल्पयामि नमः
४ इतरकरे पुण्ड्रेक्षुचापं कल्पयामि नमः
४ अपरकरे पुष्पबाणान् कल्पयामि नमः
४ श्रीमन्माणिक्यपादुके कल्पयामि नमः
४ स्वसमानवेषाभिरावण देवताभिः सह महाचक्राधिरोहणं कल्पयामि नमः
४ कामेश्वराङ्गपर्यङ्कोपवेशनं कल्पयामि नमः
४ अमृतासवचषकं कल्पयामि नमः
४ आचमनीयं कल्पयामि नमः
४ कर्पूरवीटिकां कल्पयामि नमः
४ आनन्दोल्लासविलासहासं कल्पयामि नमः
४ मंङ्गलारार्तिकंकल्पयामि नमः
समस्तचक्रवक्रशीयुते देवि नवात्मिके ।

आरार्तिकमिदं तुभ्यं गृहाण मम सिद्धये ॥

इति नववारं श्रीदेव्या आचूडम् आचरणाब्जं मङ्गालारार्तिक परिभ्राम्य दक्षभागे स्थापयेत् ।
४ छत्रं कल्पयामि नमः
४ चामरयुगलं कल्पयामि नमः
४ दर्पणं कल्पयामि नमः
४ तालवृन्तं कल्पयामि नमः
४ गन्धं कल्पयामि नमः
४ षुष्पं कल्पयामि नमः
४ धूपं कल्पयामि नमः
४ दीपं कल्पयामि नमः


N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP