संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
अथ विशेषार्ध्यविधिः

ललितार्चन चंद्रिका - अथ विशेषार्ध्यविधिः

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


सामान्यार्ध्योदकेन तद्दक्षिणतः बिन्दुत्रिकोणषट्कोणवृत्तचतुरस्रात्मकं मण्डल परिकल्प्य बिन्दौ सानुस्वारं तुरीयस्वरमालिख्य चतुरस्रे षङङ्गं विन्यस्य कूटत्रयेण त्रिकोणकोणानि अभ्यर्च्य पुरोभागादिप्रादक्षिण्येन कूटत्रयद्विरावृत्या षट्कोणस्य कोणांश्च क्रमेण कुसुमादिभिः अभ्यर्चयेत् ।
तद्यथा -
चतुरश्रे अग्नीशासुरवायुकोणेषु मध्ये दिक्षु च --
४ कएईलह्रीं हृदयाय नमः हृदयशक्तिश्रीपादुकां पूजयामि ।
४ हसकहलह्रीं शिरसे स्वाहा शिरःशक्तिश्रीपादुकां पूजयामि ।
४ सहकह्रीं शिखायै वषट् शिखाशक्तिश्रीपादुकां पूजयामि ।
४ कएईलह्रीं कवचाए हुऍं कवचशक्तिश्रीपादुकां पूजयामि ।
४ हसकहलह्रीं नेत्रत्रयाय वौषट्, नेत्रशक्तिश्रीपादुकां पूजयामि ।
४ सकलह्रीं अस्त्राय फट् - अस्त्रशक्तिश्रीपादुकां पूजयामि ।
ततः त्रिकोणे स्वाग्रादिप्रादक्षिण्येन
४ कएईलह्रीं नमः
४ हसकहलह्रीं नमः
४ सकलह्रीं नमः
ततः षट्कोणे स्वाग्रादिप्रादक्षिण्येन
४ कएईलह्रीं हृदयाय नमः हृदयशक्तिश्रीपादुकां पूजयामि ।
४ हसकहलह्रीं शिरसे स्वाहा शिरःशक्तिश्रीपादुकां पूजयामि ।
४ सकलह्रीं शिखायै वषट् शिखाशक्तिश्रीपादुकां पूजयामि ।
४ कएईलह्रीं कवचाय हुं कवचशक्तिश्रीपादुकां पूजयामि ।
४ ह्रसकहलह्रीं नेत्रत्रयाय वौषट् नेत्रशक्तिश्रीपादुकां पूजयामि ।
४ सकलह्रीं अस्त्राय फट् अस्त्रशक्तिश्रीपादुकां पूजयामि ।
ततः ४ अस्त्राय फट् इति आधारं प्रक्षाल्य
४ ऐं अग्निमण्डलाय दशकलात्मने अर्ध्यपापाधाराय नमः
इति आधारं संस्थाप्य, अग्निमण्डलत्वेन विभाव्य दशवह्निकलाः संपूजयेत्
१. ४ धूम्रार्चिषे नमः ।
२. ४ ऊष्मायै नमः ।
३. ४ ज्वालिन्यै नमः ।
४. ४ ज्वालिन्यै नमः ।
५. ४ विस्फुलिङ्गिन्यै नमः
६. ४ सुश्रियै नमः ।
७. ४ सुरूपायै नमः ।
८. ४ कपिलायै नमः ।
९. ४ हव्यवहायै नमः ।
१०. ४ कव्यवहायै नमः ।
४ अस्त्राय फट् इति विशेषःर्ध्यपात्रं प्रक्षाल्य
४ क्लीं सूर्यमण्डलाय द्वादशकलात्मने अर्ध्यपात्राय नमः इति आधारोपरि संस्थाप्य
४ ह्रीं ऐं महालक्ष्मीश्वरिपरमस्वामिनि ऊर्ध्वशून्यप्रवाहिनि सोमसूर्याग्निभक्षिणि परमाकाशभासुरे आगच्छागच्छ विश विश पात्रं प्रतिगृह्ण प्रतिहृह्व हुं फट स्वाहा इति पुष्पाञ्जलिं विकीय, सूर्यमण्डलत्वेन विभाव्य द्वादशसूर्यकलाः पूजयेत् ।
१. ४ तपिन्यै नमः
२. ४ तापिनयि नमः
३. ४ धूम्रायै नमः
४. ४ मरीच्यै नमः
५. ४ ज्वालिन्यै नमः
६. ४ रुच्यै नमः
७. ४ सुषुम्नायै नमः
८. ४ भोगदायै नमः
९. ४ विश्वायै नमः
१०. ४ बोधिन्यै नमः
११. ४ धारिण्यै नमः
१२. ४ क्षमायै नमः
ततो विशेषार्ध्यपात्रे
४ सौः सोममण्डलाय षोडशकलात्मने अर्ध्यामृताय नमः इति मन्त्रेण कलशगतं कस्तूर्याद्याधिवासितं क्षीरमापूर्य तत्र सुरभिफलं कुसुममार्द्रकशकलं च निक्षिप्य सोममण्डलत्वेन विभाव्य षोडशसोमकलाः संपूजयेत् - यथा
१. ४ अमृतायै नमः
२. ४ मानदायै नमः
३. ४ पूषायै नमः
४. ४ तुष्टयै नमः
५. ४ पुष्टयै नमः
६. ४ रत्यै नमः
७. ४ धृत्यै नमः
८. ४ शशिन्यै नमः
९. ४ चन्द्रिकायै नमः
१०. ४ कान्त्यै नमः
११. ४ ज्योत्स्नायै नमः
१२. ४ श्रियै नमः
१३. ४ प्रीत्यै नमः
१४. ४ अङ्गदायै नमः
१५. ४ पूर्णायै नमः
१६. ४ पूर्णामृतायै नमः
तत्र विशेषार्ध्यांमृते अकथादिषोडशवर्णात्मकं रेखात्रयं विलिख्य तदंतः स्वाग्रादिकोणेषु प्रादक्षिण्येन च हं ळं क्षं बहिश्च मूलखण्डत्रयं बिंन्दो सबिन्दु तुरीयस्वरं तद्वामदक्षयोः क्रमेण हं सः इति च वर्णौ विलिख्य
४ हं सः नमः इति मन्त्रेणाराध्य त्रिकोणस्य परितो वृत्तं निर्माय तद्वहिश्च षट्कोणं निर्माय स्वाग्रादिप्रादक्षिण्येन
४ कएईलह्रीं हृदयाय नमः हृदयशक्तिश्रीपादुकां पूजयामि ।
४ हसकहलह्रीं शिरसे स्वाहा शिरःशक्तिश्रीपादुकां पूजयामि ।
४ सकलह्रीं शिखायैवषट शिखाशक्तिश्रीपादुकां पूजयामि ।
४ कएईलह्रीं कवचाय हुऍं कवचशक्तिश्रीपादुकां पूजयामि ।
४ हसकहलह्रीं नेत्रत्रयाय वौषट - नेत्रशक्तिश्रीपादुकां पूजयामि ।
४ सकलह्रीं अस्त्राय फट् अस्त्रशक्तिश्रीपादुकां पूजयामि ।
इति षडङ्गमन्त्रैः षतकोणमभ्यर्च्य
४ मूलान्ते तां चिन्मयीमानन्दलक्षणाममृतकलशषिशित हस्तद्बयां प्रसन्नां देवीं पूजयामि स्वाहा इति सुधादेवीमभ्यर्च तदर्घ्य किञ्चित्प्रात्रान्तरेण
४ वषडित्युद्धृत्य
४ स्वाहा इति मन्त्रेण तत्रैव निक्षिप्य
४ हुं इत्यवगुण्ठय
४ वौषट इति धेनुमुद्रया अमृतीकृत्य
४ फट् इति संरक्ष्य
४ नमः इति पुष्पं दत्वा, गालिन्या मुद्रया
४ मूलेन निरीक्ष्य, योनिमुद्रया नत्वा, मूलेन सप्तवारमाभि मन्त्र्य गन्धाक्षतपुष्पधूपदीपान् दत्वा, विशेषार्ध्यामूतेन आत्मानं पूजोपकरणानि च प्रोक्षयेत् । ततः विशेषार्ध्यपात्रं करेण संस्पृश्य मन्त्रैरभिमन्त्रयेत्, मन्त्राश्च
४ धूम्रार्चिषे नमः
४ ऊष्मायै नमः
४ ज्वलिन्यै नमः
४ ज्वलिन्यै नमः
४ विस्फुलिङ्गिन्यै नमः
४ सुश्रियै नमः
४ सुरूपायै नमः
४ कपिलायै नमः
४ हव्यवहायै  नमः
४ कव्यवहायै  नमः
४ तपिन्यै नमः
४ तापिन्यै नमः
४ धूमायै  नमः
४ मरीच्यै नमः
४ ज्वालिन्यै नमः
४ रुच्यै नमः
४ सुषुम्नायै नमः
४ भोगदायै नमः
४ विश्वायै नमः
४ बोधिन्यै नमः
४ धारिण्यै नमः
४ क्षमायै नमः
४ अमृतायै नमः
४ मानदायै नमः
४ पूशायै नमः
४ तुष्टयै नमः
४ पुष्टयै नमः
४ रत्यै नमः
४ धृत्यै नमः
४ शशिन्यै नमः
४ चन्द्रिकायै नमः
४ कान्यै नमः
४ ज्योत्स्नायै नमः
४ श्रियै नमः
४ प्रीत्यै नमः
४ अङ्गदायै नमः
४ पूर्णायै नमः
४ पूर्णामृतायै नमः
४ सृष्ट्यै नमः
४ ऋद्धयै नमः
४ स्मृत्यै नमः
४ मेधायै नमः
४ कान्त्यै नमः
४ लक्ष्म्यै नमः
४ द्युत्यै नमः
४ स्थिरायै नमः
४ स्थित्यै नमः
४ सिद्धये नमः
४ जरायै नमः
४ पालिन्यै नमः
४ शान्त्यै नमः
४ ईश्वर्यै नमः
४ रत्यै नमः
४ कामिकायै नमः
४ वरदायै नमः
४ ह्णादिन्यै नमः
४ प्रीत्यै नमः
४ दीर्धायै नमः
४ तीक्ष्णायै नमः
४ रौद्रयै नमः
४ भयायै नमः
४ निद्रायै नमः
४ तन्द्रयै नमः
४ क्षुधायै नमः
४ क्रोधिन्यै नमः
४ क्रियायै नमः
४ उद्गार्ये नमः
४ मृत्यवे नमः
४ पीतायै नमः
४ श्वेतायै नमः
४ अरुणायै नमः
४ असितायै नमः
४ निवृत्यै नमः
४ प्रतिष्ठायै नमः
४ विद्यायै नमः
४ शान्त्यै नमः
४ इन्धिकायै नमः
४ दीपिकायै नमः
४ रेचिकायै नमः
४ मोचिकायै नमः
४ परायै नमः
४ सूक्ष्मायै नमः
४ सूक्ष्मामृतायै नमः
४ ज्ञानायै नमः
४ आप्यायिन्यै नमः
४ व्यापिन्यै नमः
४ व्योमरूपायै नमः
४ हंसश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ नमः ॥
४ प्रतद्विष्णुस्तवते वीर्याय भृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेषु अधिक्षितन्ति भुवनानि विश्वा ॥ नमः ॥
४ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॥ नमः ॥
४ तद्विणोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम्, तद्विप्रासो विपन्यवो जागृवॉंसः समिन्धते विष्णोर्यत् परमं पदम् ॥ नमः ॥
४ विष्णुर्योनि कल्पयतु त्वष्टा रूपाणि पिंशतु आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते । गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजा ॥ नमः ॥
४ मूलविद्या - क एई ल ह्रीं हसकहलह्रीं सकलहीं नमः ।
अखण्डैकरसानन्दकरे परसुधात्मनि ।
स्वच्छन्दस्फुरणामत्र निधेह्यकलनायिके ॥ नमः ॥
४ अकुलस्थामृताकारे शुद्धज्ञानकरे परे ।
अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ॥ नमः ॥
४ तद्रूपिण्यैकरस्यत्वं कृत्वा ह्येतत्स्वरूपिणि ।
भुकेक्त्वा परामृताकारा मयि चित्स्फुरणं कुरु ॥ नमः ॥
४ ऐं प्लूं झ्रौं जुं सः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहा ॥ नमः ॥
एतदर्घ्यसंशोधनम् । एवमभिमन्त्रणेन ज्योतिर्भयीकृतात् विशेषार्घ्यामृतात् पात्रान्तरेण किञ्चिदुद्धृत्य तद्विन्दुभिः त्रिवारं श्रीगुरुपादुकामन्त्रेण शिरसि श्रीगुरुं यजेत् । सन्निहिताय तु निवेदयेत् ।
स्वयञ्च
४ आद्रं ज्वलति ज्योतिरहमस्मि । ज्योतिर्ज्वलति ब्रह्माहमस्मि योहमस्मि ब्रह्माहमस्मि । अहमस्मि ब्रह्माहमस्मि । अहमेवाहं मां जुहोमि स्वाहा ॥
इति मन्त्रेण आत्मनः कुण्डलिनीरूपे चिदग्नौ होमबुद्धया जुहुयात् । विशेषार्घ्यपात्रात् किञ्चित् क्षीरं कारणकलशे निक्षिपेत् ।
आविसर्जनं शङ्खं विशेषार्घ्यपात्रं च न चालयेत् । इदं पात्रद्वयमेव सूत्ररीत्या श्रीक्रमे नान्यत् ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP