संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
सामान्यर्ध्यविधीः

ललितार्चन चंद्रिका - सामान्यर्ध्यविधीः

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


एवं न्यासादिकं कृत्वा कलशमादाय प्रक्षाळ्य सुवासितेन जलेन आपूर्य
४ कलशाधिष्ठातृदेवताभ्यो नमः इति गन्धपुष्पाक्षतैरभ्यर्च्य
४ ‘ वं ’ इति धेनुमुद्रया अमृतीकृत्य मूलेन त्रिवारमभिमन्त्र्य, तज्जलेन स्ववामे बिन्दुत्रिकोणषट्कोणवृत्तचतुरश्रात्मकं मण्डलं परिकल्प्य अग्नीशासुरवायुकोणेषु मध्ये दिक्षु च बालाषडङ्गं पुष्पै विन्यस्य
यथा
४ ऐं हृदयाय नमः [ आग्नेये ]
४ क्लीं शिरसे स्वाहा [ ईशान्याम् ]
४ सौः शिखायै वषट् [ नैऋतौ ]
४ ऐं कवचाय हुम् [ वायव्ये ]
४ क्लीं नेत्रत्रयाय वौषट् [ मध्ये ]
४ सौः अस्त्राय फट् [ प्रागादिचतुर्दिक्षु । ]

ततः आधारमादाय
४ फट् इति प्रोक्ष्य
४ अं अग्नीमण्डलाय दशकलात्मने अर्ध्यपात्राधाराय नमः । इति मण्डलोपरि विन्यस्य

शंखमादाय
४ फट् इति प्रक्षाल्य
४ उं सूर्यमण्डलाय द्वादशकलात्मने अर्ध्यपात्राय नमः इति प्रतिष्ठाप्य ततः ४ मं सोममण्डलाय षोडशकलात्मने अर्ध्यामृताय नमः इति कलशगतं जलं दत्वा, श्रीरविर्न्द्रुं च दत्वा, तस्मिन शङ्खे अग्निशासुरवायुकोणेषु मध्ये विदिक्षु च
४ कएईलह्रीं हृदयाय नमः हृदयशक्तिश्रीपादुकां पूजयामि ।
४ सकहलह्रीं शिरसे स्वाहा शिरःशक्तिश्रीपादुकां पूजयामि ।
४ सकलह्रीं शिखायै वषट् शिखाशक्तिश्रीपादुकां पूजयामि ।
४ कएईलहीं कवचाय हुं कवचशक्तिश्रीपादुकां पूजयामि ।
४ हसकहलह्रीं नेत्रत्रयाय वौषट् नेत्रशक्तिश्रीपादुका पूजयामि ।
४ सकलह्रीं अस्त्राय फट् अस्त्रशक्तिश्रीपादुकां पूजयामि इति षङ्ङ्गै संपूज्य
४ अस्त्राय फट् इति संरक्ष्य
४ कवचाय हु इत्यवगुण्ठ्य धेनुवंऐंयोनिमुद्रे प्रदर्श्य मूलेन सप्तवारमभिमत्त्र्य तत्सलिलपृषतैः पूजोपकरणानि आत्मानंच प्रोक्ष्य शङ्खजल किञ्चित् वर्धन्यां निक्षिपेत् ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP