संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
अथ प्रातः स्मरणम् ।

ललितार्चन चंद्रिका - अथ प्रातः स्मरणम् ।

'ललितार्चन चंद्रिका' अर्थात्‍ 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


प्रातः स्मरामि जगतां जनन्याश्ररणांबुजम् ।
महात्रिपुरसुन्दर्याः नमितायाः हरादिभिः ॥
प्रातस्त्रिपुरसुन्दर्याः नमामि चरणाम्बुजम् ।
हरिर्हरोविरिञ्चिश्च सृष्टादीन् कुरुते यया ।
प्रातस्त्रिपुउसुन्दर्या भजामि पदपङ्कजम् ।
यत्पाद्यमम्बु शिरसि भाति गङ्गामहेशितुः ॥
प्रातः पाशाङ्कुशशरचापहस्तां नमाम्यहम् ।
उद्यदादित्यसङ्काशां श्रीमत्त्रिपुरसुन्दरीम् ।
यत्पादार्चनतो देवाः देवत्वं प्रतिपेदिरे ।
तां नमामि महादेवी महात्रिपुरसुन्दरीम् ।
यः श्लोकपञ्चकमिदं प्रातः नित्य पठेन्नरः ।
तस्मै दद्यादात्मपदं श्रीमत्त्रिपुरसुन्दरी ॥
इति प्रातः स्मरणम् ।
इति प्रातस्मरणंकृत्वा ततः मया पूर्वेद्युरहोरात्रोच्चारिताम् उच्छ्वासनिश्वासात्मिकां षच्छातोत्तरैकविंशतिसहस्रसंख्याकामजपागायत्रीं मूलाधारादिसप्तचक्रनिवासिनीभ्यो तत्तद्देवताभ्यो निवेदयामि इति सङ्कल्प्य अजपानिवेदनं कुर्यात् ।
यथा
षट्शतं तु गणेशाय षट्सहस्रं तु वेधसे
षत्सहस्रं माधवाय षट्सहस्रं पिनाकिने ।
जीवात्मने सहस्रं तु सहस्रं परमात्मने
सहस्रं गुरवे तुभ्यं जपसङ्ख्यां निवेदये ॥
इति तत्तत्स्थानविभावनापूर्वकं निवेद्य
आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूले ललाटे
द्वेपत्रे षोडशारे द्विदशदशदळे द्वादशार्धे चतुष्के ।
बासान्ते बालमध्ये डफ कठसहिते कंठदेशे स्वराणां
हं क्ष तत्त्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि ॥ इति
ततः
दक्षांसे स्फटिकाभासं शूलमालालसत्करं
भस्माक्षसर्पचर्माद्यैः शोभितं जटिलं शुभम् ।
वामांगे तप्तहेमाभं पाशचापलसत्करं
अर्धनारीश्वरं देवं अहकारतनुं भजे ॥
इति ध्वात्वा
ओं ऐं ह्रीं श्रीं ‘ हंसः सोsहम् ’ इति हंसमन्त्रं पञ्चविंशतिवारं जपेत् ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP