मल्लपुराणम् - व्दादशोऽध्याय; ।

१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.


प्राणसाध्यो जयो युध्दे प्राणश्चाडविमर्दनात्‍ ।
श्रम: शरीरसाध्योयं शरीरं पुष्टीकारणम्‍ ॥१॥
अत:  शरीरपुष्टीयमुपायं कथयाम्यहम्‍ ।
उचिताहारचेष्टा तु यथा पुष्टि:  प्रजायते ॥२॥
वातापित्तकफानां तु प्रकोष्ठे तेन लक्ष्यते ।
तत्र प्रकुय्यति वात: प्रकारै: पोडशालाभि:  ॥३॥
आम्लतित्तकपायाणां कटुकानां च सेवनात्‍ ।
मध्यमानां सर्वाडानां वेगसंधाराणादपि ॥४॥
व्यापीनमासनाश्चैव तथा जलतरणादपि ।
बलवृध्दिकराच्चैव तथा जागरणादपि ॥५॥
सामान्यमन्नशाकादिभोजनैश्च  विशेषत: ।
मेघोघ(द्र) मनकाले च जीर्णवस्त्रेस्तथैव च ॥६॥
इति पोडाशधा चैव जन्तोर्वात: प्रकुप्यति ।
इति क्षीयं (बं) प्रयत्नेन  यथा सुखामवाप्नुयात्‍ ॥७॥
अथ  वातप्रकोपस्य लक्षणं कथयाम्यहम्‍ ।
त्रायते येन्न विज्ञाय यथा युक्तिश्चिकित्सिते ॥८॥
शिरसीव  तथा वाते वातश्च श्रोत्रयोरपि ।
नेत्रयोइर्हॄदये चैव हनुदेशे तथैव च ॥९॥
स्कन्धयोरडासंधौ च जायते च दिघानिशम्‍ ।
भुजयोश्चैव जडायाद्दं सका(संको) चमपि जायते ॥१०॥
भ्रम: कम्पम्तथा स्वेद: सी (स्ने) ह: पृष्ठोदरेपु च ।
बृहणं कक्षयोश्चैव नाभिदेशे तथैव च ॥११॥
गुह्ये चैव तथापत्रे तथा पृप्ठे (क) क्षयोरपि ।
एतेप्वडेपु मल्लानादं विकारात्‌ रुक्‍ प्रजायते ॥१२॥
आपरं (अल्पं) भवति चापल्यं त्वक्‍ पारुस्यां च जायते ।
अग्निविषतमा (मता) चैव लक्ष्यन्ते वायुलक्षणम्‍ ॥१३॥
वातप्रशमनोपायं संपातं कथयाम्यहम्‍ ।
स्नेहनेनाभिषेकश्च नित्यं चोपक्रमादपि ॥१४॥
मन्थादिमं मासमयं ध्रुवं वातप्रशान्तये ।
दातव्यं भेषजं पश्चादुपवासादनन्तरम्‍ट ॥१५॥
ज्ञात्वा प्रयत्न: कर्तव्य: संक्षेमाप्त्यै यशाप्तये ।
रक्षा च त्रिफलाभिश्च रेचना च अपि स्मृतम्‍ ॥१६॥
रुधिरस्रावमपि च घृतं दुग्ध च शर्करा ।
पित्तप्रशमनं चैव मल्ले कर्तव्यमुत्तमम‍ ॥१७॥
एलया सितया मिश्रं पय:खण्डेन योजितम्‍ ।
सप्तरात्रप्रयोगेण पित्तं नाशयति ध्रुवम् ॥१८॥
कुर्वन्‍ पित्तप्रशान्तिश्च प्राप्नोति परमं सुखम् ।
इति पित्तप्रशान्तिश्च सर्व च कथितं मया ॥१९॥
बहुमण्डजलाहारैर्मधुरैश्चातिशीतलै: ।
दधिदुग्धनवात्रैश्च तथैव च नवोद्कै: ॥२०॥
तथा पित्तविकारैश्च भक्ष्यैश्चैक्षुसमुद्भवै : ।
लवणेन दिवास्वापात्ताथैव विषमासानात्‍  ॥२१॥
एतै:  प्रकारैश्चान्यैश्च कफ: कुप्यति न संशय: ।
इति प्रकोप:  कफजो ज्ञातव्यो लक्षणै: सदा ॥२२॥
कथ्यन्ते लक्षणान्यत्र कफकोपाभवानि च ।
अडस्य गौरवं चैव तथाप्रेरपि मन्दता ॥२३॥
हृदयस्य सदा केशो सुखं चैव प्रशुप्यति ।
मुखे मधुरता चैव तथालस्यमपि ध्रुवम्‍ ॥२४॥
अतिकासप्रभावेपि तथैव चक्षु पाण्डवा (ण्डुता) ।
प्रज्ञाभ्रमे (मो) रोमहर्षस्तथैव पीनसा (सो) द्भव: ॥२५॥
कायो निद्रा च तन्द्रा च तथा लाला च पोतनम्‍ ।
जायते यत्र यत्रेदं स्थानानि कथयाम्यहम्‍ ॥२६॥
कण्ठोप्ठरसनास्वेदो दन्तमूलेपु तत्क्षणम्‍ ।
बालाप्राणतलेप्वेव तथैव श्रवणान्तरे ॥२७॥
तथा सर्वश्रमस्थाने भवेच्चलचलायनम्‍  ।
विज्ञाय लक्षणैरेतै: श्रमं कुर्वन्ति तत्क्षणम्‍ ॥२८॥
नाशश्चैव प्रकर्तव्य: शुध्दोण्णोदकवारिणा ।
आडकं च त्रिकट्‍  कर्म दर्पायित्वा प्रयत्नता: ॥२९॥
वीजपूरकगर्भेण मेलयित्वा च सैन्धवम्‍ ।
कवलानि मुखे घृत्वा चावयित्वा समुत्सृजेत्‍ ॥३०॥
योगमेनं कृतं प्राहुर्निश्चितं कफनाशनम्‍ ।
तस्मादारोग्यप्राप्त्यर्थ शोचनीयं प्रयत्नत: ॥३१॥
हिंगु सौवर्चलं शुण्ठी दाडीमं मुस्तसंयुतम्‍ ।
उष्णेन वारिणा पीतं हृद्रोगधासकासनुत्‍ ॥३२॥
अन्यौपधानि विज्ञाय कर्तव्यानि च तत्क्षणात्‍ ।
येनैवारोग्यमाप्नोति मल्ल: सर्वच्च (त्र) सर्वदा ॥३३॥

N/A

References : N/A
Last Updated : December 31, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP