संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
शक्तियशो नाम

शक्तियशो नाम

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


गोमुखेनेति कथितं श्रुत्वा वत्सेश्वरात्मजः ।
प्रभाते निजमुद्यानं ययौ विरहनिःसहः ॥६४२॥
ततो विद्याधराधीशः समेत्य प्रमदाकुलः ।
तां सुतां शक्तियशसं ददौ तस्मै सुलोचनाम् ॥६४३॥
अथ दिव्योचितोत्साहविपुलोत्सवशालिनीम् ।
तया नरेन्द्रपुत्रस्य विवाहश्रीरवर्तत ॥६४४॥
परिणीयेन्दुवदनां प्रहृष्टः पितुराज्ञया ।
विललास स्मरस्मेरो विलासोपवनेषु सः ॥६४५॥
विद्याधरीप्रणयिनं सुतमाकलय्य
वत्सेश्वरः किमपि हर्षसुधार्द्रचेताः ।
देवीसखस्त्रिनयनार्चनकल्पवृक्ष -
सूतेः फलस्य कुसुमोद्गतिमभ्यमंस्त ॥६४६॥

इति क्षेमेन्द्रविरचितायां बृहत्कथामञ्जर्यां शक्तियशो नाम षोडशो लम्बकः ।

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP