संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
दयिताख्यायिका

दयिताख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


उक्त्वेति वायसामात्यश्चिरंजीवी निजं प्रभुम् ।
विसृज्य कृतकच्छन्नपक्षस्तस्थौ मॄतोपमः ॥४७७॥
अभ्येत्य वायसावासं चतुरः सानुगो निशि ।
उलूकः पतितं काकम ददर्श चिरजीविनम् ॥४७८॥
केचिदाहुरवध्योऽयं वध्योऽयमिति चापरे ।
मन्त्रिणो घूकराजस्य मुख्यामात्योऽब्रवीत्ततः ॥४७९॥
कृपणः शरणं यातो रक्ष्योऽयं विपदि स्थितः ।
ददौ सार्थपतिः पूर्वं चौरायापि स्वयं धनम् ॥४८०॥
वृद्धं पुरा सार्थवाहं भार्या हरिणलोचना ।
बाला पिशाचसदृशं न सेहे द्रष्टुमुल्बणम् ॥४८१॥
कदाचिदथ शर्वर्यां चौरं वीक्स्य स्वमन्दिरे ।
चकिता सहसा वॄद्ध्मालिलिङ्ग घनस्तनी ॥४८२॥
सदा पराङ्मुखीं दृष्ट्वा स्वयं कण्ठावलम्बिनीम् ।
कान्तां वृद्धोऽवदच्चौरमकाण्डामृतनन्दितः ॥४८३॥
नेक्षतेऽपाङ्गलोलाक्षी सैवमालिङ्गति स्वयम् ।
हर चौर धनं सर्वं प्रियकृद्दयितोऽसि मे ॥४८४॥
इति दयिताख्यायिका ॥२७॥

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP