संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
सूचीमुखाख्यायिका

सूचीमुखाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


श्रुत्वेति कर्कशं तस्य वक्रं बुद्धिविचेष्टितम् ।
पैशुन्यभेदचकितो धर्म्यं करटकोऽब्रवीत् ॥३६०॥
लक्ष्मीः परोपतापेन कष्टानन्यधनक्षयैः ।
भूतदाहेन चागारं गच्छन्ति बत दुर्जनाः ॥३६१॥
सखे विरम पापात्त्वं श्रृणु मत्तोऽनुशासनम् ।
अथ वा मूर्खशास्तारो हतः सूचीमुखो यथा ॥३६२॥
हेमन्तकर्षिताः पूर्वं वानराः काष्ठसंचयम् ।
आहृत्य गत्वा खद्योतं मध्ये सर्वेष्वपाव्रजन् ॥३६३॥
दृष्ट्वा सूचीमुखः पक्षी तत्तेषां मूर्खचेष्टितम् ।
प्राह व्यर्थश्रमेणालं खद्योतोऽयं न पावकः ॥३६४॥
इति शिक्षां ब्रुवाणस्य कश्चिच्छुश्राव नो वचः ।
यदा तदा स कर्णान्ते वानरानवदत्पुनः ॥३६५॥
तत्रैको वचनं श्रुत्वा तस्य निर्बन्धभाषितम् ।
गृहीत्वा तं जघानाशु शिलायां भर्त्सयन्कपिः ॥३६६॥
एवं तवोपदेष्टारो न वयं कुशलास्पदम् ।
येनेयं स्वामिनो लक्ष्मीः पैशुन्यात्संशये धृता ॥३६७॥
इति सूचीमुखाख्यायिका ॥१७॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP