महासत्त्वाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अलंकारवती श्रुत्वा पत्युरित्युचितं वचः ।
उवाच देव धन्यस्य किं नाम तव दुर्लभम् ॥३२॥
व्रतिनां दान्शीलानां भक्तानां पार्वतीपतौ ।
अधीनाः सिद्धयः सर्वाः कियन्मात्रं तु पुत्रकाः ॥३३॥
राजा विक्रमतुङ्गोऽभूत्पुरे पाटलिपुत्रके ।
यत्सत्त्वकौमुदीधौता विबबहु भुवनावली ॥३४॥
इन्दीवरप्रभा नाम तस्येन्दीवरलोचना ।
बभूव भार्या मर्यादा धातुर्लावण्यकौशले ॥३५॥
स कदाचिन्मृगक्रीदारणकेलिकुतूहली ।
विवेश विपिनं धन्वी विचित्रदृढसौष्ठवः ॥३६॥
तत्रापश्यन्मन्त्रसिध्द्यै बिल्वहोमपरायणम् ।
द्विजं ज्वलित्सप्तार्चिःपिङ्गीकृतदिगन्तरम् ॥३७॥
यदा काञ्चनतां याति श्रीफलं पावकान्तरे ।
तदा मन्त्रस्य सिद्धस्य लक्षणं कथितं बुधैः ॥३८॥
जुह्वतस्तस्य रुचिरं न फलं प्राप हेमताम् ।
ततो राजा समभ्येत्य ददर्शाहुतितत्परम् ॥३९॥
तं दृष्ट्वा ज्वलिते वह्नौ बिल्वमेकं स कौतुकाम् ।
चिक्षेप तत्क्रुधा विप्रो भ्रुकुटीभीषणोऽभवत् ॥४०॥
अस्नातस्त्वमनाचम्य सर्वस्पर्शो विश्रृङ्खलः ।  
वह्नौ जुहोषि पापात्मन्नित्याह स महीपतिम् ॥४१॥
तत्फलं भूभुजा क्षिप्रं द्विजेन फलमण्डलम् ।
हुतं राज्ञः काञ्चनतां यावन्नैव द्विजन्मनः ॥४२॥
तद्विलोक्याद्भुतं विप्रो विस्मयस्थगिताकृतिः ।
बभूव मन्त्रगणनाविच्छेदाद्विचलाधरः ॥४३॥
ततः स्वयं जातवेदाः समुत्थाय महीभुजे ।
ददौ फलं स्वहस्तेन तदपृच्छच्च सोऽग्रजः ॥४४॥
भगवन्नियमस्थस्य न मेऽद्यापि प्रसीदसि ।
विकीर्णाचारमनसः कथं तुष्टेऽसि भूपतेः ॥४५॥
इत्युक्तः सोऽब्रवीद्वह्निः संकल्पोऽस्याभवद्दृढः ।
शिरश्छित्वा जुहोमीति दर्शनेन विना मम ॥४६॥
त्वं तु शुष्कक्रियातन्त्रः केवलं मन्त्रसाधकः ।
सिद्धिः सत्त्ववतामेव संकोचो ह्यतिसंयमः ॥४७॥
इत्युक्त्वा भगवानग्निः कृतकृत्यं नृपं व्यधात् ।
तस्यैव वाक्याद्विप्रं तं विधायान्तरधीयत् ॥४८॥
ततः स्वनगरीं गत्वा महासत्त्वो महीपतिः ।
इन्दीवरप्रभासक्तश्चचारोद्यानभूमिषु ॥४९॥
धातुवादी ततोऽभ्येत्य धातुशर्माभिधो वचः ।
तमभ्यधादहं ताम्रं विदधे देव काञ्चनम् ॥५०॥
हेमकारं समाहूय द्राविते शुल्बपिण्डके ।
स्वैरं राज्ञा समादिष्टो बहु चिक्षेप चूर्णकम् ॥५१॥
हृते यक्षकुमारेण तत्र चूर्णे मुहुर्मुहुः ।
न तत्कनकतां प्राप विघ्नेनादॄश्यमूर्तिना ॥५२॥
नरेश्वरोऽथ चिक्षेप चूर्णं तत्कौतुकात्स्वयम् ।
तच्चूर्णपातात्सर्वं तत्प्रययौ जातरूपताम् ॥५३॥
इत्येवं शुद्धसत्त्वानामनपेक्षितसंयमाः ।
भवन्ति सिद्धयो देव त्वं च सत्त्ववतां वरः ॥५४॥
इति महासत्त्वाख्यायिका ॥२॥

N/A

References : N/A
Last Updated : October 27, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP