हरिशिखकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इत्युक्त्वा विरते तस्मिन्दृष्टो हरिशिखोऽब्रवीत् ।
उज्जयिन्यामहं देव पातितस्तेन मायिना ॥२१४॥
दुःखाद्दोरे महाकालश्मशाने मर्तुमुद्यतः ।
पुंसां प्रियवियोगाग्नेर्देहत्यागोऽतिशीतलः ॥२१५॥
वह्निप्रवेशकामं मां दृष्ट्वा भूताधिपोऽवदत् ।
कालसङ्घो न मर्तव्यं त्वया जीवति ते प्रभुः ॥२१६॥
महेश्वर्वरात्सोऽऽस्ति सर्वविद्याधरेश्वरः ।
वृतः समस्तविद्याभिः संप्राप्तश्चक्रवर्तिताम् ॥२१७॥
इति श्रुत्वा प्रहृष्टोऽहमाहूतस्ततविद्यया ।
त्वत्पादमूलं संप्राप्तः सुकृतीव सुभां गतिम् ॥२१८॥
इति हरिशिखकथा ॥९॥

N/A

References : N/A
Last Updated : October 27, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP