भगीरथयशःप्राप्तिकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


ततः कदाचिद्गन्धर्ववरोद्यानस्थितं दिव्ह ।
विद्यादह्री समभ्येत्य प्राह तं कन्यकानुगा ॥८०॥
पुत्री ममेयं विद्यानां धाम नाम्नाजिनावती ।
विद्याधरपतेश्चण्डसिंहस्य कुलभूषणम् ॥८१॥
असंशयं त्वया भाव्यं विद्याभृच्चक्रवर्तिना ।
तद्देया सुन्दरी तुभ्यमेतामर्हति नापरः ॥८२॥
इह स्थितिर्न युक्ता ते मायिनो गुलिकाधराः ।
अवन्तिनगरीमेहीत्युक्त्वा तमनयत्क्षणाम् ॥८३॥
राजा प्रसेनजित्तत्र तं वरोद्यानचारिणम् ।
दृष्ट्वा ज्ञातान्वसायास्मै हृष्टः स्वतनयां ददौ ॥८४॥
भगीरथयशां नाम तां प्राप्य नरवाहनः ।
न पूर्वपरिणीतानां सस्मार सुहृदो न वा ॥८५॥
विशाललोचनदलं सुगन्धिस्मरकेसरम् ।
पिबतस्तन्मुखाम्भोजं भृङ्गता तस्य काप्यभूत् ॥८६॥
इति भगीरथयशःप्राप्तिकथा ॥४॥

N/A

References : N/A
Last Updated : October 27, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP