वेगवतीप्राप्तिः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इति सेनापतिवचः श्रुत्वा वत्सनरेश्वरः ।
यौगंधरायणसखो बभूव ध्याननिश्चलः ॥१३॥
नरवाहनदत्तोऽपि प्रियाविरहमोहितः ।
नोद्यानेषु न वापीषु न हर्म्येश्वाययौ रतिम् ॥१४॥
दोलासु चित्रशालासु वासवेश्मसु कानने ।
न बबन्ध धृतिं वीरः कः स्वस्थो विप्रिये विधौ ॥१५॥
गुरुलज्जाङ्कुशस्त्वेवं मित्रेणाश्वासितस्य च ।
पुटपाक इवासक्तस्तस्याभूच्छोकपावकः ॥१६॥
स प्रविश्य पुरोद्यानं विमाने सुरभिण्यपि ।
शुशोच तत्कुचापीडफुल्लां कुरुबकावलीम् ॥१७॥
दयितामधुगण्डूषचरणाघातपुष्पितौ ।
अशोकबकुलौ दृष्ट्वा प्रियाकेलिशिखण्डिनम् ॥१८॥
बर्ही बिभर्ति यस्तस्याः कटाक्षपटलीमिव ।
न हि तं फुल्लकमलं पूर्णचन्द्रां न वा निशाम् ।
स सेहे चन्द्रवदनावदनध्यानतत्परः ॥१९॥
सरोजनयनां वापीं रथाङ्गपुलकस्तनीम् ।
हंसालीरसनां वीक्ष्य शुशोच स्मृतवल्लभः ॥२०॥
गोमुखाङ्कनिषण्णाङ्गं प्रियाविरहमोहितम् ।
उद्याननलिनीतीरमरुतस्तं सिशेविरे ॥२१॥
मरुभूतिरथाभ्येत्य दन्तांशुनिवहैः सुधाम् ।
विकिरन्निव तं प्राह हर्षव्याकोशलोचनः ॥२२॥
दिष्ट्या विवर्धसे देव दृष्टा मदनमञ्चुका ।
इयमास्ते सुवदना रक्ताशोकतरोरधः ॥२३॥
श्रुत्वेति सहसोत्थाय प्रहृष्टो नरवाहनः ।
न सत्यं दर्शय क्कासावित्याहोत्कण्ठिताशयः ॥२४॥
मन्यमानस्ततः स्वप्नं गत्वा तद्दिष्टवर्त्मना ।
स ददर्श प्रियां स्फारनेत्रपात्रं पिबन्निव ॥२५॥
किमेतदिति सानन्दं पृष्टा तेन सुमध्यमा ।
साब्रवीन्नवलावण्यैः पूरयन्ती दिगन्तरम् ॥३६॥
पुरा त्वत्संगमोपाये यक्षः संतोषितो मया ।
पूजाबलिप्रदानेन पानं तस्मै तु नार्पितम् ॥२७॥
तस्मादयं वियोगोऽभूदावयोः क्षपितश्च सः ।
इत्याह कृतकाकारतुल्या मदनमञ्चुका ॥२८॥
स तु प्रियस्नुषां ज्ञात्वा लब्धां वत्सनरेश्वरः ।
कौशाम्बीमुत्सवस्मेरसिन्दूरारुणितां व्यधात् ॥२९॥
पुनर्विघ्नविनाशाय कल्पितोद्वाहमङ्गलम् ।
कूटविद्याधरी तस्थौ नरवाहनकामिनी ॥३०॥
ततस्तद्वदनामोदसुगधमधुनिर्वॄतः ।
ययौ वत्सेश्वरसुतः सेव्यमानः सुहृज्जनैः ।
यत्नात्स दयितां मेने स्पर्शे मदनमञ्चुकाम् ॥३१॥
निद्रानिमीलितदृशो वदनं मम वल्लभ ।
न द्रष्टव्यं त्वयेत्याह सा न हारादिव प्रियम् ॥३२॥
ततः सुरतसंमर्दे गाढनिद्रां सकौतुकः ।
ददर्शांशुकमुद्धाट्य तां विनिद्रो नृपात्मजः ॥३३॥
निर्मितामिव लावण्यैः कम्पितामिव यौवनैः ।
निष्पन्नामिव पीयूषैर्वीक्ष्यैतां निश्चलोऽभवत् ॥३४॥
अमानुषोचितस्फारं प्रभाभरितमाननम् ।
स तस्या हेमकमलच्छायं दृष्ट्वा स्मयं ययौ ॥३५॥
अहो दिव्यवधूः कान्ता केयमानन्दकौमुई ।
बिभर्ति मत्प्रियारूपमिति स्वैरं विचिन्तयत् ॥३६॥
क्क सा प्रियेति दुःखार्तो निर्विशेशेऽतिविस्मितः ।
दिव्येति धनतामानी सोऽभूद्दोलाचलाशयः ॥३७॥
तत्कान्तिपानहृष्टोऽपि विना मदनमञ्चुकाम् ।
सद्यस्तत्याज स धृतिं प्रेमबन्धो हि रम्यता ॥३८॥
सहसा प्रतिबुद्धाय पादसंवाहनोद्यतम् ।
तमालोक्य तु सा प्राह हृष्टा विनयशालिनी ॥३९॥
अस्ति विद्याधराधीशो यशस्वी वेगवानिति ।
यस्याषाढपुरे रम्या राजधानी मनोजवा ॥४०॥
तस्या मानसवेगाख्यः पुत्रो बलवतां वरः ।
सुता वेगवती चाहं त्वन्मुखेन्दुचकोरिका ॥४१॥
स कदाचिन्निजयशःशुभ्रं पलितमात्मनः ।
दृष्ट्वाभिषिच्य तनयं विरकोऽभूद्वने मुनिः ॥४२॥
याचितोऽपि मया भ्राता कुलविद्यापदस्थितिम् ।
मात्सर्यान्न ददौ लुब्धो न हि स्वजनवत्सलः ॥४३॥
ततस्तपोवनस्थस्य गत्वाहं पितुराश्रम म् ।
स्थिता सपर्यासंतोषप्रसादितमुनीश्वरी ॥४४॥
तत्र केलिकलालोला कदाचिन्मत्तबर्हिणम् ।
अङ्गहाराभिधं बाला करतालैरनर्तयम् ॥४५॥
नृत्यतस्तस्य विबभौ कलापो विविधच्छविः ।
व्योमयानादिव गतः शक्रचापः सहस्रधा ॥४६॥
बहुरूपं विधायाशु मणिमान्नाम राक्षसः ।
जहार मां ततस्तस्मै चुकोप अमुनिमण्डलः ॥४७॥
स माम विमुच्य प्रोवाच मुनिक्रोधावधिर्मम ।
कौबेरोऽयं गतः शापो निगद्येति दिवं ययौ ॥४८॥
ततोऽहमपि कालेन तुष्टस्य पितुराज्ञया ।
अवापमखिला विद्यास्तत्प्रभावाधिकप्रभाः ॥४९॥
अत्रान्तरे स्मरोन्मत्तो विप्रलोक्य विश्रृङ्खलः ।
जहार तव मभ्द्राता प्रियां मदनमञ्चुकाम् ॥५०॥
अलक्षितस्तामादाय निर्मर्यादः पतिव्रताम् ।
अयाचत रतिं पापः शप्तः स्वर्गाङ्गनामिव ॥५१॥
दशास्यस्येव शापोऽस्ति तस्याप्यन्यवधूरते ।
पावयैनामिति स्वैरं मामलज्जस्ततोऽवदत् ॥५२॥
तूर्णं मानसवेगेन प्रेरिताहं तव प्रियाम् ।
अवदं मानुषी किं त्वं शक्रतुल्ये निरादरा ॥५३॥
श्रीमान्मानसवेगोऽयं कस्या न नयनप्रियः ।
का हि दैवविपर्यस्ता मधुरं वेत्ति नामृतम् ॥५४॥
इति मद्वचनं श्रुत्वा साध्वी मदनमञ्चुका ।
निःश्वस्य साश्रुनयना मत्पुरस्त्वद्यशोऽभ्यधात् ॥५५॥
श्रुत्वैव त्वद्गतमतिस्ततोऽहमभवं विभो ।
मनोभवभुजङ्गो हि यत्सत्यं श्रुतिलोचनः ॥५६॥
गौरीवरो ममाभूच्च यस्य नाम्नि श्रुतिं गते ।
वशमेष्यसि कामस्य स ते भर्ता भविष्यति ॥५७॥
ततस्तां स्वैरमामन्त्र्य बद्धवेणीं पतिव्रताम् ।
त्वामागतास्मि तद्रूपा प्राप्तुं परिणयश्रियम् ॥५८॥
पूर्णश्च मम संकल्पः प्रमाणमधुना भवान् ।
.................................................... ।
......................एवं द्रष्टुं मदनमञ्चुकाम् ॥५९॥
इति वेगवतीप्राप्तिः ॥२॥

N/A

References : N/A
Last Updated : October 27, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP