गुणाकरसमागमः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


ततः श्रुतधिना प्रातस्तथा विमलबुद्धिना ।
समेत्य तां कथां सर्वां राजपुत्रः समभ्यधात् ॥४२१॥
सभां मायावटोः प्राप्य ते प्रभाते महात्मनः ।
बभूवुर्व्यग्रमनसो द्यूतकेलिकलाविधौ ॥४२२॥
अथोच्चैः श्रुतधिः प्राह नीलकण्ठोऽद्य नृत्यतु ।
अलं द्यूतेन नः सद्यः प्रतीहारेण वर्णितः ॥४२३॥
इति श्रुतधिवाक्येन स मायाबटुभूभुजा ।
प्रतीहारोऽभ्यनुज्ञातस्तमाहर्तुं गृहं ययौ ॥४२४॥
स चौरो न मयाद्यापि हतः किं मन्दबुद्धिना ।
इति ध्यात्वा गृहेऽपश्यन्न चौरं न च बर्हिणम् ॥४२५॥
गृहात्प्रतिनिवृत्यासौ प्राह मायाबटोः पुरः ।
गतो हर्हीति तच्छ्रुत्वा जहास श्रुतधिर्भृशम् ॥४२६॥
बर्ही चौरेण वा नीतश्चौरो वा बर्हिणा हृतः ।
अहो त्वया न विज्ञातं चौरबर्हिविचेष्टितम् ॥४२७॥
इत्युक्त्वा श्रुतधिः सर्वां तत्कथां कौतुकस्पृशे ।
निवेद्य शबरेन्द्राय दासीं कृताङ्गुलीं च ताम् ॥४२८॥
नमः स्त्रिय इति प्राह निन्दन्मञ्जुमतीं मुहुः ।
तत्त्वं मायाबटुर्ज्ञात्वा प्रतीहारं जघान तम् ॥४२९॥
वधान्मृगाङ्कदत्तेन स्त्री न वध्येति रक्षिता ।
ययौ मञ्जुमती क्कापि द्रोहः सत्यं विपत्फलम् ॥४३०॥
कदाचिदथ यातेषु वासरेषु व्यजिज्ञपन् ।
शबराः शबराधीशं वीरः प्राप्तो महानिति ॥४३१॥
सार्थो दुःखोपहराय रुद्धोऽस्माभिः स सत्त्ववान् ।
शतानि पञ्च वीराणां जघान जितविक्रमः ॥४३२॥
इति तेषां वचः श्रुत्वा मायाबटुरसंभ्रमः ।
आनीयतामयं वीरो द्रष्टव्योऽयमुवाच तान् ॥४३३॥
तमागतं समालोक्य सङ्ग्रामक्षतविग्रहम् ।
गुणाकरोऽयमित्यूचुस्ते परिज्ञाय विस्मिताः ॥४३४॥
ततः क्षणं समाश्वस्तं निबद्धव्रणपट्टकम् ।
मृगाङ्कदत्तः पप्रच्छ किमेतदिति सानुगः ॥४३५॥
इति गुणाकरसमागमः ॥१०॥

N/A

References : N/A
Last Updated : October 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP