ललितलोचनालापकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इति प्रियस्य वचनं श्रुत्वा विद्याधरात्मजा ।
उवाच कान्यकुब्जेति रम्यास्ति नगरी विभो ॥३५॥
वामदत्ताभिधानोऽभूत्तस्यां यज्वा द्विजोत्तमः ।
कदाचिद्ब्राह्मणः कश्चित्तद्गृहं भोक्तुमाविशत् ॥३६॥
उपविष्टस्ततस्तस्मिन्सज्जभोजनमण्डपे ।
उत्थाय तूर्णं निर्गत्य वामदत्तोऽभ्ययात्पुनः ॥३७॥
भोजनान्तेऽर्थिना पृष्टः स निर्गमनकारणम् ।
वामदत्तोऽवदत्स्वैरं श्रूयतां कौतुकं द्विज ॥३८॥
शशिप्रभेति भार्या मे बभूव सुमुखी पुरा ।
तन्न्यस्तगृहभारोऽहं राजसेवापरोऽभवम् ॥३९॥
ततः कदाचिन्मामाह पितृव्यः साश्रुलोचनः ।
वामदत्तविरागात्ते भार्या गोपालरागिणी ॥४०॥
इति तद्वचसा शङ्काकुलोतोऽहमलक्षितः ।
स्थितः प्राकारमुल्लङ्घ्य फुल्लवल्लीनिकुञ्जके ॥४१॥
ततो महिषपालेन संगतां निजवल्लभाम् ।
अपश्यं प्रेमविश्वासकेलिलीलानिरर्गलाम् ॥४२॥
ततोऽहं भृशसंक्रुद्धो निहन्तुं पारदारिकम् ।
समुद्यतस्तया दृष्टो धार्ष्ट्यनिष्कम्पया पुनः ॥४३॥
सा दृष्ट्वा मूर्ध्नि चिक्षेप धूलिमुष्ट्यञ्जलेन मे ।
किल्बिषापह्नवक्रौर्यधीरा नार्यो हि दुर्जयाः ॥४४॥
ततो महिषतां यातः सहसाहं महाकृतिः ।
कोपान्महिषपालेन तद्गिरा तेन ताडितः ॥४५॥
बद्धं महिषशालायां ततः कालेन मां वणिक् ।
कश्चिन्निनाय मूल्येन दूरभारातिवाहिकम् ॥४६॥
कदाचिदथ दूराध्वनिःसहं शुष्कविग्रहम् ।
कन्यकानुगतापश्यत्कापि मामुत्तमाङ्गना ॥४७॥
सा दिव्यदृष्टिः कारुण्यात्स्नातुं गङ्गाजलेन माम् ।
अनलस्येव महिषाकारं बन्धादमोचयत् ॥४८॥
ततः प्राप्तस्वरूपाय सा मह्यं तनयां ददौ ।
कान्तां कान्तिमतीं नाम सिद्धिं मूर्तिमतीमिव ॥४९॥
अथ स्वगृहमागत्य तद्दत्तैः सिद्धसर्षपैः ।
सा कुभार्या मया दूरादाहता वडवाभवत् ॥५०॥
सेयं स्थिता मन्दुरायां सततं लगुडैर्मया ।
ताड्यते पञ्चभिर्नित्यं तदर्थं चास्मि निर्गतः ॥५१॥
श्रुत्वेति विस्मिते याते सस्मिन्नभ्यागते द्विजे ।
जननी योगसंसिद्धा कान्तिमत्याः समाययौ ॥५२॥
तच्छिक्षया वामदत्तः कालसंकर्षणोऽसिनः ।
विद्यां श्रीपर्वते ध्याता खङ्गविद्याधरोऽभवत् ॥५३॥
कान्तिमत्यामहं तस्य नाम्ना ललितलोचना ।
जाता विद्याधरेन्द्रस्य मलयाचलवासिनः ॥५४॥
साहं गौरीवराद्दिष्टा तव भार्या कुलोचिता ।
नास्म्ययोगकुलोत्पन्ना येनैतत्कथितं त्वया ॥५५॥
इति कान्तावचः श्रुत्वा विश्रब्धं नरवाहनः ।
विजहार तया बालश्रीखण्डतरुमण्डले ॥५६॥
तत्र लीलारतश्रान्तभुजङ्गमिथुनस्पृशः ।
चन्द्रनामोदसुभगा मरुतस्तं सिषेविरे ॥५७॥
पुन्नागचम्पकाशोकचूतकिंशुककेसरैः ।
मालतीषु रतिं लेभे तटेषु दयितासखः ॥५८॥
इति ललितलोचनालापकथा ॥२॥

N/A

References : N/A
Last Updated : October 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP